________________
६२४
उत्तरज्झयणाणि-२ बोध्यापेक्षयेति प्रसङ्गतश्चाद्यजिनाभिधानमिति ॥२७॥ केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥२८॥ व्याख्या-साधु शोभना गौतम ! प्रज्ञा बुद्धिस्ते तव यतश्छिन्नो मे मम संशयः सन्देह: 'इमो' त्ति अयं त्वयेति गम्यम्' विनयापेक्षं चेत्थमुक्तमन्यथा तस्य ज्ञानत्रयवतः कुत एवंविधसंशयसम्भव इति । तथाऽन्योऽपि वक्ष्यमाणः संशयो मम तं मे कथय गौतम ! तद्विषयमप्यर्थं यथावत् प्रतिपादयेति भावः ॥२८॥
अचेलगो य जो धम्मो जो इमो संतरुत्तरो ।
देसिओ वद्धमाणेणं पासेण य महायसा ॥२९॥ व्याख्या-'महायस'त्ति महायशसा शेषं व्याख्यातमेव ॥२९॥
एगकज्जपवन्नाणं विसेसे किं नु कारणं ? ।
लिंगे दुविहे मेहावी कहं विप्पच्चओ न ते ? ॥३०॥ व्याख्या-लिङ्गे वर्षाकल्पादिरूपे वेषे द्विविधे अचेलकतया वस्त्रधारकतया च द्विभेदे इति शेषं स्पष्टम् ॥३०॥ गौतमः प्राह
केसिं एवं बुवाणं तु गोयमो इणमब्बवी ।
विन्नाणेण समागम्म धम्मसाहणमिच्छियं ॥३१॥ व्याख्या विशिष्टं ज्ञानं विज्ञानं केवलाख्यं तेन समागम्य यद् यस्योचितं तत् तथैव ज्ञात्वा धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकं 'इच्छियंति दृष्टमनुमतं 'पार्श्ववीराभ्यामिति प्रक्रमः' । श्रीवीरशिष्याणां हि रक्तादिवस्त्रानुज्ञाते वक्रजडत्वेन वस्त्ररञ्जनादिप्रवृत्तिर्दुर्निवारा स्यादतस्तेन नानुज्ञातम्, पार्श्वशिष्यास्तु न तथेति तेन रक्तादीनामप्यनुज्ञातं कृतमिति भावः ॥३१॥ किञ्च
पच्चयत्थं च लोयस्स नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च लोगे लिंगपओयणं ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org