________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६२३ एवं केशिनोक्ते
तओ केसिं बुवंतं तु गोयमो इणमब्बवी ।
पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥२५॥ व्याख्या-ततः 'तुरवधारणे' केशि ब्रुवन्तमेव जल्पादनुपरतमेवाऽनेनादरातिशयमाह । गौतम इदमब्रवीत् । किमब्रवीद् ? इत्याह-प्रज्ञा बुद्धिः समीक्षते सम्यक् पश्यति धर्मतत्त्वं 'बिन्दुरलाक्षणिकः' धर्मपरमार्थं तत्त्वानां जीवादीनां विनिश्चयो यस्मिस्तत् तथा । न हि वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयः, किन्तु प्रज्ञावशादिति भावः ॥२५॥ ततश्च
पुरिमा उज्जुजडा उ वक्कजड्डा य पच्छिमा ।
मज्झिमा उज्जुपन्ना उ तेण धम्मो दुहा कए ॥२६॥ व्याख्या-पूर्वे प्रथमतीर्थकृत्साधवः ‘उज्जुजड'त्ति ऋजवः सरलतया, जडाश्च दुष्प्रतिबोध्यतया ऋजुजडास्तुर्यस्मात् 'वक्कजडा य'त्ति वक्राश्च वक्रबोधतया, जडाश्चानेककुविकल्पतो विवक्षितार्थावबोधाक्षमतया वक्रजडा: 'चः समुच्चये' पश्चिमाः पश्चिमतीर्थकृद्यतयः, मध्यमा मध्यमतीर्थकृन्मुनय ऋजुप्रज्ञा ऋजवश्च ते प्रकर्षेण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितार्थग्रहणक्षमा ऋजुप्रज्ञास्तेन हेतुना धर्मो द्विभेदः कृतः 'एककार्यप्रपन्नत्वेऽपीति प्रक्रमः' ॥२६।। पूर्वादीनामेवंविधत्वेऽपि कुतस्तद् वैविध्यमित्याह
पुरिमाणं दुव्विसोज्झो उ चरिमाणं दुरणुपालओ ।
कप्पो मज्झिमगाणं तु सुविसोज्झो सुपालओ ॥२७॥ व्याख्या-पूर्वेषां यतीनां दुर्विशोध्यो दुःखेन विशोधयितुं निर्मलतां नेतुं शक्यः 'कल्प इति सम्बध्यते' ते ह्यतिऋजुतया जडतया च सम्यगपि गुर्वनुशासनं यथावन्न प्रतिपत्तुं क्षमा इति निर्मलावबोधाभावात् तेषामसौ दुर्विशोध्यः । 'तुर्विशेषार्थे' चरमाणां दुःखेनानुपाल्यते इति दुरनुपालको वक्रजडत्वात् कल्पो यतिक्रियाकल्पः, ते हि वक्रत्वेन कुविकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुं शक्ताः । मध्यमकानां तु सुविशोध्यः सुपालकश्च ऋजुप्रज्ञत्वात् 'कल्प इहापि योज्यः' ते हि ऋजुप्रज्ञतया चतुर्यामोक्तावपि पञ्चममपि याम गुरूक्तं सुखेनैव यथावदवबुध्यन्ते पालयन्ति चातस्तदपेक्षया पाइँन चतुर्याम उक्तः । प्रथमान्त्यार्हद्भ्यां तत्तद्धेतोः पञ्चमं व्रतं भिन्नतयोक्तमिति धर्मस्य द्वैविध्यं देशितम् । वस्तुतो व्रतपञ्चकमेव सर्वतीर्थकृताम्, भेदाभिधानं तु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org