________________
६२२
उत्तरज्झयणाणि-२
पुन:
देव-दाणव-गंधव्वा जक्ख-रक्खस-किन्नरा ।
अदिस्साण य भूयाणं आसि तत्थ समागमो ॥२०॥ व्याख्या-देवाद्याः 'समागता इति योज्यम्' । तत्र देवा ज्योतिष्कवैमानिकाः, दानवा भवनपतयः, गन्धर्वादयस्तु व्यन्तरविशेषा देवगायना वा, यक्षा गुह्यकाः, राक्षसा नृमांसाशिनः, किन्नरा एतेऽपि देवविशेषाः । अग्रेऽदृश्यविशेषणादेते दृश्यरूपाः । अदृश्यानां च भूतानां केलीकिलव्यन्तरविशेषाणामासीत् समागमस्तत्र ॥२०॥ अथ तयोर्जल्पमाह
पच्छामि ते महाभाग ! केसी गोयममब्बवी ।
तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥२१॥ व्याख्या-पृच्छामि ते इति त्वां हे महाभाग ! अचिन्त्यशक्ते ! इति केशि: केशिकुमारो गौतमं महावीरप्रथमगणधरमब्रवीत् । ततस्तदनन्तरं केशि ब्रुवन्तं ब्रूवाणं 'तु' पुनर्गौतमोऽब्रवीत् ॥२१॥
पुच्छ भंते ! जहिच्छं ते केसिं गोयममब्बवी ।
तओ केसी अणुन्नाओ गोयमं इणमब्बवी ॥२२॥ व्याख्या-पृच्छ हे भदन्त ! हे पूज्य ! 'जहिच्छंति यथेच्छमिच्छाया अनतिक्रमेण यदवभासते इत्यर्थः । केशि केशिकुमारं 'गोयमं'ति सुब्ब्यत्ययाद् गौतमोऽब्रवीत् । ततः केशिरनुज्ञातः 'प्रक्रमाद् गौतमेन' गौतममिदमब्रवीत् ।।२२।। यदसौ पृष्टवांस्तदाह
चाउज्जामो य जो धम्मो जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं पासेण य महामुणी ॥२३॥ एगकज्जपवन्नाणं विसेसे किं नु कारणं ? ।
धम्मे दुविहे मेहावी कहं विप्पच्चओ न ते ? ॥२४॥ अनयोाख्या-चातुर्यामो हिंसाऽनृतस्तेयपरिग्रहोपरमात्मकव्रतचुष्टयरूपः । पञ्चशिक्षितः स एव मैथुनविरतिरूपपञ्चमव्रतसहितः ।। इत्थं च धर्मे साधुधर्मे द्विविधे द्विप्रकारे हे मेधाविन् ! अवधारणशक्त्यन्वित ! कथं विप्रत्ययोऽनाश्वासो न 'ते' तव? । तुल्ये हि सर्वज्ञत्वे किं कृतोऽसौ मतभेद इत्याशयः । शेषं प्रकटार्थमेवेति गाथाद्वयार्थः ॥२३-२४॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org