SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशं केशि - गौतमीयमध्ययनम् केसीकुमारसमणे गोयमं दिस्समागयं । पडिरूवं पडिवत्तिं सम्मं संपडिवज्जई ॥ १६ ॥ व्याख्या-केशिकुमारश्रमणः श्रीपार्श्वनाथसंतानीयो गौतममिन्द्रभूतिं 'दिस्स' त्ति दृष्ट्वाऽऽगतं प्रतिरूपामुचितां प्रतिपत्तिमभ्यागतकर्तव्यरूपां सम्यक् समिति साम्मुख्येन प्रतिपद्यतेऽङ्गीकरोति ||१६|| प्रतिपत्तिमेवाह पलालं फासूयं तत्थ पंचमं कुस-तणाणि य । गोयमस्स निसिज्जाए खिप्पं संपणामए ॥१७॥ व्याख्या - पलालं व्रीहिसत्कं प्रासुकं निर्जीवं तत्र तिन्दुकोद्याने 'पंचमं' ति वचनव्यत्ययात् पञ्चमानि पञ्चसङ्ख्यापूरणानि कुश-तृणानि चशब्दादन्यान्यपि साधुयोग्यानि तृणानि । पञ्चमत्वं चैषां पलालभेदापेक्षम् । ते चाऽमी - 'साली वीहि कोद्दव लग रन्ने तणाई च' गौतमस्य निषिद्यायै - उपवेशनार्थं 'संपणामए' त्ति सम्प्रणामयति समर्पयति ॥१७॥ तौ तत्र कीदृशौ जातावित्याह केसीकुमारसमणी गोयमे य महायसे । उभओ निसन्ना सोहंति चंद-सूरसमप्पहा ॥१८॥ व्याख्या- केशीकुमारश्रमणो गौतमश्चेत्युभावपि 'सोहंति' त्ति शोभेते चन्द्रसूर्यसमा प्रभा ययोस्तौ तथा चन्द्र-सूर्योपमावित्यर्थः ॥ १८ ॥ ततसङ्गमे यदभूत् तदाह समागया बहू तत्थ पासंडा कोउगा मिया । गिहत्थाण अणेगाओ साहस्सीओ समागया ॥ १९ ॥ ६२१ व्याख्या - सं सम्यक्प्रकारेणागताः समागता मिलिताः पाखण्डाः शेषव्रतिनः कौतुकाश्रिता मृगा इव मृगा अज्ञत्वात् । गृहस्थानामनेकानि सहस्राणि सहस्रसङ्ख्याकानि समागताः ॥१९॥ १. शालिव्रीहिः कोद्रवो रालकोऽरण्यतृणानि च । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy