SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-२ व्याख्या - चातुर्यामो महाव्रतचतुष्टयात्मको यो देशितः कथितः पार्श्वेन पार्श्वनाथेनार्हतेति सम्बन्धः । 'जो इमो' त्ति 'प्राक्चकारस्यात्र योजनाद्' यश्चायं पञ्च शिक्षा: प्राणातिपात - मृषावादादत्तादान - मैथुन - परिग्रहादिविरत्युपदेशरूपा यस्मिन्नऽसौ पञ्चशिक्षितो वर्धमानेन महावीरेण देशितः कथित इति योग: । 'विभक्तिव्यत्ययाद्' महामुनिनेति द्वयोरपि विशेषणम् ॥१२॥ तथा ६२० अचेलगो य जो धम्मो जो इमो संतरुत्तरो । एगकज्जपवन्नाणं विसेसे किं नु कारणं ? ॥१३॥ व्याख्या–अचेलकश्चाविद्यमानचेलकोऽवस्त्रकः 'परिजुन्नमप्यमुल्लं' इत्यागमात् नञः कुत्सार्थत्वाच्च कुत्सितचेलको वा यो धर्मः 'वर्धमानेन देशित इत्यपेक्ष्यते' । 'जो इमो' ति यश्चायं सान्तराणि वर्धमानशिष्यवस्त्रापेक्षया कस्यचित् कदाचिन्मानवर्णविशेषितानि, उत्तराणि च बहुमूल्यतया प्रधानानि वस्त्राणि यस्मिन्नऽऽसौ सान्तरोत्तरो धर्मः ' पार्श्वेन देशित इतीहापि योज्यम्' एकं कार्यं मुक्तिलक्षणं तदर्थं प्रवृत्तयोः प्रक्रमात् पार्श्व-वर्धमानयोर्धर्माचारप्रणिधिविषये विशेषे किं 'नुर्वितर्के' कारणम् ? । कारणभेदेन हि कार्यभेद इति भावः ॥ १३॥ अह ते तत्थ सीसाणं विन्नाय पवितक्कियं । समागमे कयमई उभओ केसि - गोयमा ॥ १४॥ व्याख्या- अथानन्तरं 'ते' इति तौ प्रक्रान्तौ केशि- गौतमौ तत्र श्रावस्त्यां शिष्याणां प्रकर्षेण वितर्कितं मिथः संशयेन विकल्पितं विज्ञाय समागमे मीलके कृतमती कृताभिप्रायावभूतामुभौ ॥१४॥ गोयमे पडिरूवन्नू सीससंघसमाउले । जे कुलमविक्खंतो तिंदुयं वणमागओ ॥१५॥ व्याख्या - गौतमः 'पडिरूवन्नू' त्ति प्रतिरूपविनयो यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः शिष्यसङ्घसमाकुलः शिष्यसमूहयुक् । ज्येष्ठं प्राग्भावितया पूर्वं भूतं वृद्धं कुलं पार्श्वसन्तानमपेक्षमाणो विगणयन् तिन्दुकं तिन्दुकनामानं वनमुद्यानं केशिकुमाराधिष्ठितमागतः ॥ १५ ॥ १. परिजीर्णमल्पमूल्यम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy