SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशं केशि-गौतमीयमध्ययनम् ६१९ व्याख्या-कोष्ठकं नामोद्यानं 'तम्मि' त्ति इहापि तस्याः श्रावस्त्या नगर्या नगरमण्डले नगरकैभागे ईशानकूणे । तत्र प्रासुके शय्यासंस्तारके तत्र 'वासं' ति वासार्थमुपागतः समागतः ॥८॥ ततः किमजनि ? इत्याह केसीकुमारसमणे गोयमे य महायसे । उभओ वि तत्थ विहरंसु अल्लीणा सुमाहिया ॥९॥ व्याख्या केशिकुमारश्रमणो गौतमश्च महायशाः 'उभओ वि' त्ति उभावपि द्वावपि केशि-गौतमौ तत्र श्रावस्त्यां नगर्यां 'विहरंसु' त्ति 'वचनव्यत्ययाद्' व्यहार्टी विहतवन्तौ 'अल्लीणा' त्ति आलीनौ त्रिगुप्तिगुप्तौ यद्वा अलीनौ पृथगवस्थानेनान्योन्यमाश्लिष्टावमिलितौ पुनः सुसमाहितौ ज्ञानादिसमाधि गतौ ॥९॥ उभओ सीससंघाणं संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना गुणवंताण ताइणं ॥१०॥ व्याख्या-उभयोर्द्वयोः केशि-गौतमयोः शिष्यसङ्गानां शिष्यसमूहानां संयतानां संयमिनां तपस्विनां तपोधनयुक्तानां तत्र श्रावस्त्यां नगर्यां चिन्ता वक्ष्यमाणविकल्पात्मिका समुत्पन्ना । गुणा ज्ञानादयस्तद्वतां त्रायिणां रक्षकानाम् ॥१०॥ चिन्तामेवाह' केरिसो वा इमो धम्मो इमो धम्मो व केरिसो ? । आयारधम्मपणिही इमा वा सा व केरिसी ? ॥११॥ - व्याख्या-कीदृशः किंस्वरूपः ? 'वा विकल्पे' 'इमो' त्ति अयमस्मत्सम्बन्धी धर्मो महाव्रतात्मकोऽयं वा दृश्यमानगणभृच्छिष्यसम्बन्धी धर्मः कीदृशः ? । आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव सुगतिधारणाद् धर्मो बाह्यक्रियातोऽपि हि नवमौवेयकोत्पत्तेः तस्य प्रणिधिर्व्यवस्थापनमाचारधर्मप्रणिधिः 'इमा व' त्ति प्राकृतत्वादयं वाऽस्मत्सम्बन्धी 'सा व' त्ति स वा द्वितीययतिसत्कः कीदृशः ? । ततोऽस्माकमऽमीषां च सर्वज्ञोक्तत्वेऽपि धर्मस्य तत्साधनानां च भेदं ज्ञातुमिच्छाम इति भावः ॥११॥ तामेव चिन्ता व्यक्तीकर्तुमाह चाउज्जामो य जो धम्मो जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं पासेण य महामुणी ॥१२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy