SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ६१८ उत्तरज्झयणाणि - २ समाकुल आकीर्णः परिवृत इत्यर्थः । ग्रामानुग्रामं 'रीयंते' त्ति रीयमाणो विहरन् श्रावस्ती नगरीमागतः 'स इति शेषः ' ॥३॥ तिंदुयं नाम उज्जाणं तम्मि नगरमंडले । फासुए सिज्जसंथारे तत्थ वासमुवागए ॥४॥ व्याख्या - तिन्दुकं नामोद्यानं 'तम्मि' त्ति तस्याः श्रावस्त्या नगरमण्डले पुरपरिसरे । प्रासुके स्वाभाविकागन्तुकसत्त्वरहिते क्व ? इत्याह- शय्या वसतिस्तस्यां संस्तारकः शिला–फलकादिः शय्यासंस्तारकस्तस्मिन् तत्रेत्युद्याने वासमवस्थानमुपागतः प्राप्तः स इति गम्यम्' ||४|| अत्रान्तरे यदभूत् तदाह अह तेणेव कालेणं धम्मतित्थयरे जिणे । भयवं वद्धमाणु त्ति सव्वलोगंमि विस्सुए ॥५॥ व्याख्या- ' अथेति वक्तव्यान्तरोपन्यासे' 'तेणेव कालेणं' ति तस्मिन्नेव काले 'सूत्रत्वात् सप्तम्यर्थे तृतीया' वर्धमान इति भगवांस्तीर्थकरो धर्मतीर्थकरत्वादिविशेषणवान् 'अभूदिति शेष:' । सर्वलोके विश्रुतो विख्यातः ॥५॥ तस्स लोगप्पईवस्स आसि सीसे महायसे । भयवं गोयमे नामं विज्जा - चरणपारगे ॥६॥ व्याख्या- तस्य भगवतो महावीरस्य लोकप्रदीपस्यासीत् शिष्यो महायशा भगवान् चतुर्ज्ञानयुक्तो गौतमो नामेति गोत्रनामतोऽन्यथा हीन्द्रभूत्यभिधानोऽसौ । शेषं व्याख्यातमेव ||६|| बारसंगवि बुद्धे सीससंघसमाउले । गामाणुगामं रीयंते से वि सावत्थिमागए ॥७॥ व्याख्या-किं विशिष्टः ? आचाराङ्गादिद्वादशाङ्गवित्, बुद्धो ज्ञाततत्त्वः, शिष्याणां सङ्घः शिष्यसङ्घः तेन समाकुलः संयुक्तः, पुनः एकस्माद् ग्रामादन्यो ग्रामो ग्रामान्तरं 'रीयंते' त्ति विचरन् 'से वि' त्ति सोऽपि गौतमोऽपि 'सावत्थि 'त्ति श्रावस्ति नगरीमागतः ||७| कोट्ठगं नाम उज्जाणं तम्मि नगरमंडले । फासुए सिज्जसंथारे तत्थ वासमुवागए ॥८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy