SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशं केशि-गौतमीयमध्ययनम् इहानन्तराध्ययने कथञ्चिदुत्पन्नविस्रोतसिकेन रथनेमिवद् वृत्तिश्चरणे कार्येत्युक्तम्, इह तु परेषामपि चित्तविप्लुतिमुपलभ्य केशि-गौतमवत् तदपनोदाय यतितवव्ययमित्युच्यते। तद् यथा जिणे पासे त्ति नामेणं अरहा लोगपूइए । संबुद्धप्पा य सव्वन्नू धम्मतित्थयरे जिणे ॥१॥ व्याख्या-जिनः परीषहोपसर्गजेता पार्श्व इति नाम्ना 'अभदिति शेषः' अर्हस्तीर्थकृदत एव लोकपूजितः । सम्बुद्धस्तत्त्वावबोधवानात्माऽस्येति सम्बुद्धात्मा 'चः समुच्चये' स च छाद्मस्थ्येऽपि स्यादित्याह-सर्वज्ञः सर्वद्रव्यपर्यायवेत्ता । धर्म एव भवाम्भोधितारकत्वात् तीर्थं तत्करः । जिनो जितसकलकर्मा मुक्त्यवस्थापेक्षया ॥१॥ ततः किम् ? इत्याह तस्स लोगप्पईवस्स आसि सीसे महायसे । केसीकुमारसमणे विज्जा-चरणपारगे ॥२॥ व्याख्या-तस्य पार्श्वस्याऽर्हतो लोके प्रदीपस्येव समस्तवस्तुप्रकाशकतया लोकप्रदीपस्य आसीच्छिष्यो महायशाः केशी कुमारोऽपरिणीततया, श्रमणस्तपस्वितया, विद्या-चरणयोनि-चारित्रयोः पारगः पर्यन्तगामी ॥२॥ ओहिनाणसुए बुद्धे सीससंघसमाउले । गामाणुगामं रीयंते सावत्थि नगरिमागए ॥३॥ व्याख्या-'सुब्ब्यत्ययाद्' अवधिज्ञान-श्रुताभ्यां 'मइपुव्वं जेण सुयं' इत्यागमाच्छ्रुतस्य मतिपूर्वकतया मत्या च बुद्धोऽवगततत्त्वः । शिष्याणां सङ्घन समूहेन १. मतिपूर्वं येन श्रुतम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy