________________
६१६
आलानस्तम्भगं कृत्वा हस्तिनं मेदिनीपतिः । राज्ञी-हस्तिपकौ क्रुद्धः स्वदेशान्निरसारयत् ॥२१॥ तौ नवं जन्म मन्वानौ ततो यातौ ससम्मदौ । तद्देशात् तु बहिर्ग्रामे सुखं तस्थतुरुच्चकैः ॥२२॥
यथा ईदृगवस्थो गजोऽङ्कुशेन पथि संस्थित एवमयमप्युत्पन्नविस्रोतसिकस्तद्वचनेनाहितप्रवृत्तिनिवर्तकतयाऽङ्कुशप्रायेण धर्मे इत्यभिप्रायः ||४६॥
ततश्च
उत्तरज्झयणाणि-२
मणगुत्तो वयगुत्तो कायगुत्तो जिइंदिओ ।
सामन्नं निच्चलं फासे जावज्जीवं दढव्वओ ॥४७॥
व्याख्या- श्रामण्यं निश्चलं स्थिरं 'फासे' त्ति अस्प्राक्षीदासेवितवान् यावज्जीवं दृढव्रतः सन् । शेषं स्पष्टम् ॥४७॥
द्वयोरपि यदभूत् तदाह
उग्गं तवं चरित्ताणं जाया दोन्नि वि केवली ।
सव्वं कम्मं खवित्ताणं सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥
व्याख्या-उग्रं कर्मरिपुदारुणतया तपोऽनशनादि चरित्वा जातौ द्वावपि रथनेमिराजीमत्यौ केवलिनौ सर्वं कर्म क्षपयित्वा सिद्धि प्राप्तावनुत्तरामुत्कृष्टाम् । किञ्च रथनेमिः प्रत्येकबुद्धो भूत्वा वर्षशतचतुष्टयं गृहस्थत्वेन, वर्षमेकं छद्मस्थत्वेन, वर्षशतपञ्चकं च केवलिपर्यायत्वेनैवं नववर्षशतान्येकवर्षाधिकानि सर्वायुः प्रतिपाल्य सिद्ध इति ॥ ४८ ॥ अध्ययनोपसंहारमाह
एवं करेंति संबुद्धा पंडिया पवियक्खणा ।
विणियदृंति भोगेसु जहा से पुरिसुत्तमो ॥ ४९ ॥ त्ति बे ॥
व्याख्या - एवं कुर्वन्ति सम्बुद्धा बोधिलाभतः, पण्डितास्तत्त्वानुगामिबुद्धिमन्तः, प्रविचक्षणाः प्रकर्षेण शास्त्रज्ञाः, विशेषेण कथञ्चिद् विस्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते विनिवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति । इति ब्रवीमीति पूर्ववत् ॥४९॥ ग्रं० २५१-२॥
इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां द्वाविंशं रथनेमीयमध्ययनं समाप्तम् ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org