________________
६१५
द्वाविंशं रथनेमीयमध्ययनम्
प्रातस्तेन तथेभेन गवाक्षेऽमोचि सा पुनः । शुद्धान्तेऽगात् सुखं तस्थौ निःशङ्का हृष्टमानसा ॥७॥ भूपसद्मनि यद्येवं रक्षपालेषु सत्स्वपि । पुंश्चलीत्वं नृपस्त्रीणां का कथाऽपरवेश्मसु ? ॥८॥ ध्यात्वेति स्वर्णकृत् सुप्तः सप्ताहं निश्चलोच्चलः । राजोत्थाप्य ततोऽपृच्छत् तं बहुस्वापकारणम् ॥९॥ राज्ञोऽग्रे सकलोदन्तं लात्वाऽभयमुवाच सः । ततो मेण्ठेभ-पत्नीषु चुकोप समकं नृपः ॥१०॥ वैभारभूधरं गत्वा भूपोऽथ बहुलोकयुक् । पत्नीमानाय्य तां पट्टहस्तिनं चाह मेण्ठकम् ॥११॥ गजाजीव ! गजे राज्ञीमारोह्यानार्य ! तां जवात् । सद्यः सगज-देवीकः शैलशृङ्गादध: पत ॥१२॥ नभस्येकक्रमश्चक्रे तेन भूमौ त्रिपाद् गजः । निरागा मार्यते तिर्यग् हा ! कथं पूत्कृतं जनैः ॥१३॥ भूपेन पुनरादिष्टं तेऽद्यापि पतिता न किम् ? । ततो हस्तिपकः सद्योऽधारयद् द्विपदं द्विपम् ॥१४॥ पौरमुख्यैः पुनः प्रोक्तं कृताञ्जलिभिरादरात् । राज्यशोभाकरं रक्ष राजकुञ्जर ! कुञ्जरम् ॥१५॥ तूष्णीके रुषिते राज्याधोरणश्चरणत्रयम् । व्योम्नि भूस्थैकपादेनानेकपेनोदचिक्षिपत् ॥१६।। विज्ञप्तो मन्त्रि-सामन्तैरत्यर्थं पार्थिवः प्रभो ! । तृणादा नैव हन्यन्ते क्षत्रधर्मो ह्ययं खलु ॥१७॥ तदाऽऽख्यद् नीतिविद् राजा भोः ! वदन्त्विभपालकम् । शैलाग्राद् वारणममुं यत् त्वमुत्तारयाशु भोः ! ॥१८॥ सोऽवग् भो धीसखा ! भूपश्चेद् ददात्यभयं मम । सराज्ञीकस्य त_भं क्षेमेणातो निवर्तये ॥१९॥ तैः तस्मिन् स्वीकृते मेण्ठो विज्ञानेन सुशिक्षितम् । अङ्कुशेन ततो नागं शुभंयुमुदतारयत् ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org