________________
६१४
उत्तरज्झयणाणि-२ व्याख्या-यदि त्वं करिष्यसि भावं भोगाभिलाषरूपं या या द्रक्ष्यसि नारी: 'तासु तास्विति गम्यते' ततो वाताविद्धो वायुना विद्धः समन्तात् ताडितो भ्रामित इत्यर्थः, इतस्ततो हद इव वनस्पतिविशेष: सेवाल इवास्थितात्मा चञ्चलचित्ततयाऽस्थिरभावो भविष्यसि ॥४४॥
गोवालो भंडवालो वा जहा तद्दव्वनिस्सरो ।
एवं अणिस्सरो तं पि सामन्नस्स भविस्ससि ॥४५॥ व्याख्या-गोपालो यो गां पालयति, भाण्डपालो यः परकीयभाण्डानि भाटकादिना पालयति । यथा स तद्रव्यस्य गवादेरनीश्वरोऽप्रभुविशिष्टतत्फलोपभोगाभावादेवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि भोगाभिलाषतो विशिष्टतत्फलभोगाभावादिति भावः ॥४५॥ एवं तयोक्ते रथनेमिः किं कृतवान् ? इत्याह
तीसे सो वयणं सोच्चा संजयाए सुभासियं ।
अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥४६॥ व्याख्या-तस्या राजीमत्याः साध्व्याः स रथनेमिर्वचनमनुशिष्टरूपं श्रुत्वा संयतायाः प्रव्रजितायाः सुभाषितं सुष्ठ संवेगजनकत्वेनोक्तमङ्कशेन यथा नागो हस्ती 'पथीति शेषः' । एवं धर्मे चारित्रधर्मे 'संपडिवाइओ' त्ति सम्प्रतिपतितः संस्थितः 'तद्वचसैवेति गम्यम्' । अत्रार्थे दृष्टान्तः
स्वस्तिराजगृहं श्रीमत् स्वस्ति राजगृहं पुरम् । जितशत्रुमहाराजो जितशत्रुमहायशाः ॥१॥ सोऽन्तःपुरपुरन्ध्रीभिः क्रीडन् लीलाविलासवान् । बुभुजे तत्र साम्राज्यं चतुरङ्गचमूचणः ॥२॥ युग्मम् निद्राविरहितं कञ्चित् स्वर्णकारं नृपोऽन्यदा । सर्वान्तःपुररक्षायै तद्द्वार्यस्थापयत् सदा ॥३॥ राजाङ्गनैकदा काचिन्निर्गताऽन्यरिरंसया । जागरन्तं तमालोक्य ववले द्विस्त्रिरञ्जसा ॥४॥ सोऽपि तां स्वैरिणी मत्वा सुप्तः कपटनिद्रया । सा तु तं तादृशं दृष्ट्वा रूढा वातायनं लघु ॥५॥ ततः सङ्केतिकरिणा करेणाकृष्य साऽवनौ । मुक्ता मेण्ठेन कामान्धा रन्तुं लग्ना यथेच्छया ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org