________________
द्वाविंशं रथनेमीयमध्ययनम्
६१३ व्याख्या-अथ सा सुस्थिता निश्चला नियमव्रते-इन्द्रियनोइन्द्रियनियमे प्रव्रज्यायां च । जातिं कुलं च शीलं च रक्षन्ती तकं रथनेमिं वदेत् ॥४०॥
जइ सि रूवेण वेसमणो ललिएण नलकूबरो ।
तहा वि ते न इच्छामि जइ सि सक्खं पुरंदरो ॥४१॥ व्याख्या-यद्यसि भवसि रूपेण वैश्रमणो धनदः, ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः । तथापि ते' इति त्वां नेच्छामि यद्यसि साक्षात् पुरन्दर इन्द्रो रूपाद्यनेकगुणाश्रय इति भावः ॥४१॥ अपरं च
धिरत्थु तेऽजसोकामी ! जो तं जीवियकारणा ।
वंतं इच्छसि आवेउं सेयं ते मरणं भवे ॥४२॥ व्याख्या-धिगस्तु 'ते' तव 'पौरुषमिति गम्यते' । हे ! अयशः कामिन्नकीर्त्यभिलाषिन् ! तज्जनकदुराचारवाञ्छकत्वेन, यद्वा ते तव यशो महाकुलसम्भवोद्भूतं धिगस्तु हे कामिन् ! भोगाभिलाषिन् ! यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तमुद्गीर्णमापातुमिच्छसि । यथा हि कश्चिद् वान्तमापातुमिच्छत्येवं भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमुपभोक्तुमित्यतः श्रेयः कल्याणं 'ते' तव मरणं भवेन्न तु वान्ताऽऽपानं ततो मरणस्यैवाल्पदोषत्वात् । उक्तं च
"विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित् पुरुषाः ? ।
वान्तं पुनरपि भुङ्क्ते न च सर्वः सारमेयोऽपि" ॥१॥४२॥ अहं च भोगरायस्स तं च सि अंधगवण्हिणो ।
मा कुले गंधणा होमो संजमं निहुओ चर ॥४३॥ व्याख्या-अहं च भोगराजस्योग्रसेनस्य त्वं चासि भवस्यन्धकवृष्णेः 'कुले जात इत्युभयत्र योज्यम्' । अतो मा निषेधे, कुले गन्धनानां सर्पजातिविशेषां 'होमो' त्ति भूव तच्चेष्टितानाकारितयेति भावः । ते हि वान्तमपि विषं मन्त्राकृष्टा ज्वलदग्निपातभीरुतया पुनरप्यापिबन्ति न त्वगन्धना इति । ततः संयमं चरित्रं निभृतः स्थिरचित्तश्वरासेवस्व ॥४३॥
जइ तं काहिसि भावं जा जा दिच्छसि नारिओ । वायाइद्ध व्व हढो अट्टिअप्पा भविस्ससि ॥४४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org