SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ६१२ उत्तरज्झयणाणि-२ व्याख्या-भीता च सा 'कदाचिदसौ मम शीलभङ्गं करोतीति' । 'तहिं' ति तस्मिन् लयने दृष्ट्वा एकान्ते संयतं तकं रथनेमिम् । किं कृतवती ? इत्याह-'बाहार्हि' ति बाहुभ्यां कृत्वा संगोफमन्योन्यं बाहुसंगुम्फनं स्तनोपरि मर्कटबन्धमित्यर्थः । वेपमाना शीलभङ्गभयात् कम्पमाना निषीदत्युपविशति तदाश्लेषादिपरिहारार्थमिति भावः ॥३५॥ स च किं कृतवान् ? इत्याह अह सो वि रायपुत्तो समुद्दविजयंगओ । भीयं पवेइयं दटुं इमं वक्कमुदाहरे ॥३६॥ व्याख्या-अथ सोऽपि राजपुत्रो रथनेमिः समुद्रविजयाङ्गजो भीतां प्रवेपितां कम्पमानां 'प्रक्रमाद् राजीमती' दृष्ट्वा इदं वक्ष्यमाणं वाक्यं वचनमुदाहरदुक्तवान् ॥३६॥ तदेवाह रहनेमि अहं भद्दे ! सुरूवे ! चारुभासिणि ! । ... ममं भयाहि सुतणू न ते पीला भविस्सई ॥३७॥ व्याख्या-रथनेमिरहं भद्रे ! भद्रकारिणि ! सुरूपे ! चारुभाषिणि ! मां भजस्व अङ्गीकुरुष्व पतित्वेन हे सुतनु ! न 'ते' तव पीडा भविष्यति । सुखहेतुत्वाद् विषयसेवनस्येति भावः ॥३७॥ एहि ता भुंजिमो भोए माणुस्सं खु सुदुल्लहं । भुत्तभोगी तओ पच्छा जिणमग्गं चरिस्समो ॥३८॥ व्याख्या-एह्यागच्छ 'ता' इति तस्मात् तावद् वा, मानुष्यं खु निश्चितं सुदुर्लभं ततो भुञ्जावो भोगान् । भुक्तभोगौ ततः पश्चाद् वार्धक्ये जिनमार्ग मुक्तिपथं चरिष्यावः ॥३८॥ दण रहनेमि तं भग्गुज्जोयपराइयं । । राईमई असंभंता अप्पाणं संवरे तर्हि ॥३९॥ व्याख्या-दृष्ट्वा तं रथनेमि 'भग्गुज्जोयपराइयं' ति भग्नोद्योगो गतोत्साहः 'प्रस्तावात् संयमे' पराजितोऽभिभूतः स्त्रपरीषहेण ततो द्वन्द्वे भग्नोद्योगपराजितस्तं राजीमती असम्भ्रान्ता 'नाऽयं मां बलादकार्ये प्रवर्तयितेत्याशयेनात्रस्ता' आत्मानं स्वं 'संवरे' त्ति समवारीदाच्छादितवती 'चीवरैरिति गम्यते' 'तर्हि' ति तस्मिन् लयनमध्ये गुफामध्ये ॥३९॥ अह सा रायवरकन्ना सुट्ठिया नियमव्वए । जाई कुलं च सीलं च रक्खमाणी तयं वए ॥४०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy