________________
६११
द्वाविंशं रथनेमीयमध्ययनम् ततश्च
वासुदेवो य णं भणइ लुत्तकेसं जिइंदियं ।
संसारसागरं घोरं तर कन्ने ! लहुं लहुं ॥३१॥ व्याख्या-वासुदेवो ‘णं' इति इमां राजीमती भणति लुप्तकेशां जितेन्द्रियाम् । किं भणति ? इत्याह-संसारसागरं घोरं तरेत्युल्लङ्घ्य कन्ये ! लघु लघु त्वरितं त्वरितं 'सम्भ्रमे द्विवचनम्' ॥३१॥ ततः किम् ? इत्याह
सा पव्वइया संती पव्वावेसी तहिं बहुं ।
सयणं परियणं चेव सीलवंता बहुस्सुया ॥३२॥ व्याख्या-सा राजीमती प्रव्रजिता सती 'पव्वावेसि' त्ति प्राविव्रजत् प्रवाजितवती 'तर्हि' ति तत्र द्वारिकायां बहुं स्वजनं परिजनं चैव शीलवती बहुश्रुता ॥३२॥
गिरिं रेवययं जंती वासेणुल्ला उ अंतरा ।
वासंते अंधयारंमि अंतो लयणस्स सा ठिया ॥३३॥ व्याख्या-गिरि नगं रैवतकमुज्जयन्तं यान्ती गच्छन्ती 'प्रभुं वन्दितुमिति गम्यते' वर्षेण वृष्ट्या 'उल्ल' त्ति आर्द्रा स्तीमितसर्वचीवरेत्यर्थः । अन्तरेत्यन्तरालेऽर्धमार्गे 'वासंते' त्ति वर्षति 'मेघे इति गम्यम्' अन्धकारेपगतप्रकाशे क्व ? अन्तर्मध्ये लयनस्य गुहायां सा राजीमती स्थिता 'असंयमभीरुतयेति गम्यते' ॥३३॥ तत्र च
चीवराई विसारंती जहाजाय त्ति पासिया ।
रहनेमी भग्गचित्तो पच्छा दिट्ठो य तीइ वि ॥३४॥ व्याख्या-चीवराणि सङ्घाट्यादिवस्त्राणि विसारयन्ती विस्तारयन्ती । तत एव यथाजाता-अनाच्छादिताङ्गोपाङ्गतया जन्मावस्थोपमा इतीत्येवंविधा 'पासिय' त्ति दृष्ट्वा । ततो रथनेमिमुनिर्भग्नचित्तः 'संयमेऽभूदिति गम्यम्' स हि तामुदाररूपामवेक्ष्योत्पन्नतदभिलाषः कामातुरोऽजनीति भावः । पश्चाद् दृष्टश्च स तया राजीमत्यापि 'अपेः पुनरर्थत्वात्' तयाऽन्धकारे पूर्वं न दृष्टोऽन्यथैकाकिनी तत्र न प्रविशेदित्यर्थः ॥३४॥
भीया य सा तहिं द8 एगंते संजयं तयं । बाहाहि काउं संगोफं वेवमाणी निसीयई ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org