SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ६१० उत्तरज्झयणाणि-२ नाणेणं दंसणेणं च चरित्तेणं तहेव य । खंतीए मुत्तीए वड्डमाणो भवाहि य ॥२६॥ व्याख्या-ज्ञानादिभिर्वर्धमानो वृद्धिभाक् 'भवाहि य' त्ति भव ॥२६।। एवं ते राम-केसवा दसारा य बहुजणा । अरिठ्ठनेमि वंदित्ता अइगया वारगापुरि ॥२७॥ व्याख्या-एवमुक्तप्रकारेण वन्दित्वा स्तुत्वेति योगः । राम-केशवौ 'दसारा य' त्ति दशार्दाश्च बहवो जनाश्चातिगताः प्रविष्टा द्वारिकां पुरीम् ॥२७।। तदा च राजीमती किमचेष्टत ? इत्याह सोऊण रायकन्ना पव्वज्जं सा जिणस्स उ । नीहासा य निराणंदा सोगेण उ समुच्छया ॥२८॥ व्याख्या-श्रुत्वा राजकन्या राजीमती प्रव्रज्यां जिनस्यारिष्टनेमेः । निष्क्रान्ता हास्यान्निर्हासा निरानन्दा च शोकेन समवसृतावष्टब्धा ॥२८॥ राईमई विचिंतेई धिरत्थु मम जीवियं । जा हं तेणं परिचत्ता सेयं पव्वइउं मम ॥२९॥ __ व्याख्या-धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकम् । यथाहं तेन नेमिना परित्यक्तेति खेदहेतुदर्शकम् । ततश्च श्रेयोऽतिप्रशस्यं प्रव्रजितुं प्रव्रज्यामङ्गीकर्तुं मम, येनान्यजन्मनि नैवं दुःखभागिनी भवेयमिति ॥२९॥ इत्थं च तावत् स्थिता सा यावच्छद्मस्थतयान्यत्र विहृत्योत्पन्नेकवलो भगवान् पुनस्तत्रैवाजगाम । ततः प्रभुदेशनां श्रुत्वोत्पन्नवैराग्या किं कृतवती ? इत्याह अह सा भमरसंनिभे कुच्चफणगपसाहिए । सयमेव लुचई केसे धिइमंता ववस्सिया ॥३०॥ व्याख्या-अथानन्तरं सा राजीमती भ्रमरसंनिभान् कृष्णतया, कुर्ची गूढकेशोन्मोचको वंशमयः, फनकः कङ्कतकश्च ताभ्यां प्रसाधितान् संस्कृतानाकुञ्चिततया । स्वयमेव लुञ्चति केशान् 'स्वाम्यनुज्ञयेति गम्यम्' धृतिमती व्यवसिता धर्मं कर्तुमध्यवसिता ॥३०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org |
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy