________________
६०९
द्वाविंशं रथनेमीयमध्ययनम्
व्याख्या-मनःपरिणामश्चाभिप्रायः कृतः 'निष्क्रमणं प्रतीति गम्यम्' । देवाश्चतुनिकाया यथोचितमौचित्यानतिक्रमेण समवतीर्णाः सम्प्राप्ताः 'द्वाभ्यां चकाराभ्यां मनःपरिणाम-देवागमनयोस्तुल्यकालता सूचिता' । सर्वद्धा सपरिषदो बाह्य-मध्याभ्यन्तरपर्षदुपेताः । निष्क्रमणं प्रक्मान्निष्क्रमणमहिमानं तस्य भगवतः कर्तुं 'जे इति पादपूरणे' ॥२१॥
देव-मणुस्सपरिवुडो सीयारयणं तओ समारूढो ।
निक्खमिय बारगाओ रेवययंमि ठिओ भयवं ॥२२॥ व्याख्या-शिबिकारत्नं देवकृतम् 'उत्तरकुरुनामकमिति गम्यते' । ततः समारूढोऽध्यासीनो निष्क्रम्य निर्गत्य द्वारिकातो रैवतके-उज्जयन्ताचले स्थितो गमनान्निवृत्तो भगवान् ॥२२॥
उज्जाणं संपत्तो ओइन्नो उत्तमाओ सीयाओ।
साहस्सीए परिवुडो अह निक्खमई उ चित्ताहिं ॥२३॥ व्याख्या-उद्यानं सहस्त्राम्रवणाख्यं सम्प्राप्तः । तत्र चावतीर्णः शिबिकातः । 'साहस्सीए' त्ति सहस्रेण प्रधानपुंसां परिवृतोऽथानन्तरं निष्क्रामति प्रव्रजति 'तुः पूरणे' 'चित्ताहिं' ति चित्रानक्षत्रे ॥२३॥ कथम् ? इत्याह
अह सो सुगंधगंधिए तुरियं मउयकुंचिए ।
सयमेव लुचई केसे पंचमुट्ठीहिं समाहिओ ॥२४॥ व्याख्या-अथ स नेमिः सुगन्धिगन्धिकान् सुरभिगन्धान् स्वभावत एव, त्वरितं शीघ्रं, मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चत्यपनयति केशान् पञ्चमुष्टिभिः समाहितः समाधिमान्, सर्वं सावा ममाकर्तव्यमिति प्रतिज्ञारोपणोपलक्षणमिदम् ॥२४॥ एवं च प्रव्रजिते भगवति
वासुदेवो य णं भणइ लुत्तकेसं जिइंदियं ।
इच्छियमणोरहे तुरियं पावसू तं दमीसरा ! ॥२५॥ व्याख्या-वासुदेवश्च 'चशब्दात् समुद्रविजयादयः' णमितीमं नेमि भणति कथयति लुप्तकेशं लुञ्चितकेशं जितेन्द्रियं जितहृषीकं । ईप्सितोऽभिलषितो मनोरथः सिद्धिविषयो मुक्त्यभिलाषुकस्तं त्वरितं 'पावसु' त्ति प्राप्नुहि 'आशीर्वचनत्वादस्य' तमिति त्वं हे दमीनामीश्वर दमीश्वर ! ॥२५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org