SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ६०८ उत्तरज्झयणाणि-२ व्याख्या-कस्यार्थाद् हेतोरिमे प्रत्यक्षाः प्राणा प्राणिन एते समीपस्थाः सर्वे सुखैषिणो वाटैः पञ्जरैश्च सन्निरुद्धाः 'अच्छहिं' ति आसते ॥१६॥ अह सारही तओ भणइ एए भद्दा उ पाणिणो । तुब्भं विवाहकज्जंमि भोयावेउं बहुं जणं ॥१७॥ व्याख्या-अथ भगवतैवं पृष्टे सारथिर्भणति 'भद्दा उ' त्ति भद्रा एव भव्या एव, न तु श्व-शृगालादिवत् कुत्सिता निरपराधित्वाद् वा । शेषं स्पष्टम् ॥१७॥ सारथिनैवमुक्ते यद् भगवान् कृतवांस्तदाह सोऊण तस्स वयणं बहुपाणिविणासणं । चिंतेइ से महापन्ने साणुक्कोसे जिए हिओ ॥१८॥ व्याख्या-श्रुत्वा तस्य सारथेर्वचनं बहूनां प्राणिनां विनाशनमभिधेयं यस्मिंस्तद् बहुप्राणिविनाशनं । चिन्तयति स नेमिर्महाप्राज्ञः प्राग्वत् । सानुक्रोशः सदयो जीवेषु हितः ॥१८॥ जइ मज्झ कारणा एए हम्मति सुबहू जिया । न मे एयं तु निस्सेसं परलोए भविस्सई ॥१९॥ व्याख्या यदि मम कारणान्मम विवाहहेतोरेते हन्यन्ते सुबहवो जीवा: 'भोजनार्थममीषामिति भावः' । न मे ममैतज्जीवहननं निःश्रेयसं कल्याणं परलोके भविष्यति पापहेतुत्वादस्येति भावः ॥१९।। ____ एवं च विदितभगवदाकूतेन सारथिना मोचितेषु प्राणिषु परितुष्टोऽसौ यत् कृतवांस्तदाऽह सो कुंडलाण जुयलं सुत्तगं च महायसो । आभरणाणि य सव्वाणि सारहिस्स पणामए ॥२०॥ व्याख्या-स महायशा भगवान् कुण्डलयोर्युगलं सूत्रकं कटीसूत्रं च । किमेतदेव? इत्याह-आभरणानि सर्वाणि सारथये 'पणामए' त्ति अर्पयति ॥२०॥ ततश्च मणपरिणामे य कओ देवा य जहोइयं समोइन्ना । सव्विड्डीइ सपरिसा निक्खमणं तस्स काउं जे ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy