SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ६०६ सा च कीदृशी ? इत्याह अह सा रायवरकन्ना सुसीला चारुपेहिणी । सव्वलक्खणसं पुन्ना विज्जुसोयामणिप्पहा ॥७॥ व्याख्या - अथ सा राजवरस्योग्रसेनस्य कन्या राजवरकन्या राजीमतीत्यर्थः । सुशीला चारु मनोहरं प्रेक्षितुमवलोकितुं शीलमस्याः सा चारुप्रेक्षी नाधोदृष्टितादिदोषदुष्टा । सर्वलक्षणसम्पूर्णा लक्षणानि मषीतिलकादीनि ताभिः सम्पूर्णा । पुनः किम्भूता ? ' विज्जुसोयामणिप्पह'त्ति विशेषेण द्योत्यते दीप्यते इति विद्युद् दीप्ता सा चासौ सौदामिनी च विद्युत्सौदामिनी तद्वत् प्रभा यस्याः सा तथा ||७|| तदाह उत्तरज्झयणाणि - २ अहाह जणओ तीसे वासुदेवं महिड्डियं । इहागच्छउ कुमारो जा से कन्नं दलामहं ॥८॥ व्याख्या–अथ याञ्चानन्तरमाहोक्तवान् जनक उग्रसेनस्तस्या राजीमत्या वासुदेवं महर्धिकं सप्ताङ्गराज्यादिऋद्धियुक्तम् । इहागच्छतु कुमारः 'जा से' त्ति 'सुब्व्यत्ययाद्' येन तस्मै कुमाराय कन्यां ददामि विवाहविधिनोपढौकयाम्यहम् ॥८॥ एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत् सव्वोसहीहिं न्हविओ कयकोउयमंगलो । दिव्वजुयलपरिहिओ आहरणेहिं विभूसिओ ॥९॥ व्याख्या–सर्वाश्च ता जया - विजयर्द्धि-वृद्ध्यादय: सर्वौषधयस्ताभिः स्नपितोऽभिषिक्तः, कृतानि कौतुकानि ललाटमुशलस्पर्शनादीनि मङ्गलानि दध्यक्षत- दूर्वा-चन्दनवन्दनादीनि यस्य स कृतकौतुकमङ्गलः । 'दिव्वजुयलपरिहिओ'त्ति प्राकृत्वात् परिहितं दिव्ययुगलं प्रस्तावाद् दूष्ययुगलं येन स तथा । आभरणैर्विभूषितः ||९| मत्तं च गंधहथि वासुदेवस्स जिगं । आरूढो सोहए अहियं सिरे चूडामणी जहा ॥ १० ॥ व्याख्या-मत्तं च गन्धहस्तिनं वासुदेवस्य ज्येष्ठकं पट्टहस्तिनमारूढः शोभतेऽधिकं शिरसि चूडामणिः शिरोऽलङ्काररत्नं यथा ॥१०॥ अह ऊसिएण छत्तेण चामराहि य सोहिओ । दसारचक्केण य सो सव्वओ परिवारिओ ॥११॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy