________________
द्वाविंशं रथनेमीयमध्ययनम्
६०५ वल्लभौ राम-केशवौ-बलभद्र-वासुदेवौ 'अभूतामित्यत्रापि योज्यम्' । तत्र रोहिण्या रामो देवक्याश्च केशवो वासुदेवो नवम इति गाथाद्वयार्थः ॥१-२॥
सोरियपुरंमि नयरे आसि राया महिड्किए । समुद्दविजए नामं रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा नाम तीसे पुत्ते महायसे ।
भयवं अरिटुनेमि त्ति लोगनाहे दमीसरे ॥४॥ अनयोर्व्याख्या-शौर्यपुरे नाम्नि पूर्वोक्ते नगरे आसीद् राजा महद्धिकः समुद्रविजय इति नाम यस्य स समुद्रविजयनामा 'प्राकृतत्वादनुस्वारः', किं लक्षणः ? राजलक्षणानि छत्र-चामर-सिंहासनादीनि तैः संयुतः । पुनः शौर्यपुराभिधानं समुद्रविजय-वसुदेवयोरेकत्र स्थितिदर्शनार्थम् । तथा भगवद्विवाहोपयोगित्वेन प्रथमोत्पन्नत्वेन च केशवस्य पूर्वमभिधानम्, तत्सहचरत्वाद् रामस्येति । दमिनामुपशमिनामीश्वरो दमीश्वरः कौमार एव जितकामवीर्यत्वात् तस्येति गाथाद्वयार्थः ॥३-४॥ स भगवान् कीदृग् ? इत्याह
सोऽरिटुनेमिनामो उ लक्खण-स्सरसंजुओ ।
अट्ठसहस्सलक्खणधरो गोयमो कालगच्छवी ॥५॥ व्याख्या-सोऽरिष्टनेमिनामा 'प्राकृतत्वेन पूर्वनिपातात्' स्वरस्य लक्षणानि सुस्वरत्व-गम्भीरत्वादीनि तैः संयुतः स्वर-लक्षणसंयुतः । अष्टोत्तरसहस्रलक्षणधर:-अष्टोत्तरसहस्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारको गौतमो गोत्रेण, कालकच्छविः कृष्णकान्तिः ॥५॥
वज्जरिसहसंघयणो समचउरंसो झसोयरो ।
तस्स रायमई कन्नं भज्जं जायइ केसवो ॥६॥ व्याख्या-वज्रऋषभनाराचसंहननधरः, समचतुरस्त्रः, 'झसोयरो' त्ति झषो मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्याऽसौ झषोदरः 'मध्यपदलोपी समासः' । इतश्च द्वारिकायां राज्यं भुञ्जानः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-'तस्स' त्ति तस्यारिष्टनेमिनो राजीमती कन्यां भार्यां 'कर्तुमिति शेषः' याचते केशवः 'तज्जनकमिति प्रक्रमः' ॥६॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_02