________________
६०२
उत्तरज्झयणाणि-२ पेंचिंदियवहभूयं मंसं दुग्गंधमसुइ बीभच्छं । मज्जं च कुगइमूलं सिरि-हिरि-मइ-धम्मनासकरं ॥२॥ सपरोवघायजणया नारय-तिरिदुहकरा य पारद्धी । आयहियएणं तिन्नि वि वज्जेयव्वाणि बहुदोसा" ॥३॥ एवमाकर्ण्य संविग्नः स ऊचे भगवन्नहो ! ।
गृहस्थोचितमादेश्यं धर्मकृत्यं कृपालुना ||८|| साधुराह
"सो धम्मो जत्थ दया, दसट्ठदोसा न जस्स सो देवो ।
सो सुगुरू जो नाणी आरम्भ-परिग्गहोवरओ ॥१॥ अन्नं च
देव-गुरूण तिसंझं करेज्ज तह परमवंदणं विहिणा । तह पुण्फ-वत्थमाईहिं पूयणं सव्वकालंमि ॥२॥ भोयणसमए सयणे विबोहणे पवसणे भए वसणे । पंचनमोक्कारं खलु सुमरेज्जा सव्वकज्जेसु" ॥३॥ एवमाधुपदेशेन ग्राहितः शुभभावतः । सम्यक्त्वमूलसुश्राद्धधर्मं तेन स साधुना ॥९॥ धन्यम्मन्यो धन: साधूपदिष्टं धर्ममाचरत् । महत् तपस्विवात्सल्यात् शुभकर्मानुबद्धवान् ॥१०॥ साधुर्धर्मे स्थिरीकृत्य तमापृच्छ्य च संयमी । भव्यान् सम्बोधयन् पृथ्वी विजहार यथासुखम् ॥११॥
१. पञ्चेन्द्रियवधभूतं मांसं दुर्गन्धमशुचि बीभत्सम् ।
मद्यं च कुगतिमूलं श्री-ही-मति-धर्मनाशकरम् ।।२।। स्व-परोपघातजनका नरक-तिर्यग्-दु:खकरा च पापद्धिः ।
आत्महितकेन त्रीण्यपि वर्जितव्यानि बहुदोषानि ॥३॥ २. स धर्मो यत्र दया, दशाष्टदोषा न यस्य स देवः ।
स सुगुरुर्यो ज्ञानी आरम्भ-परिग्रहोपरतः ॥१॥ अन्यच्च-देव-गुरूणां त्रिसन्ध्यं कुर्यात् तथा परमवन्दनं विधिना । तथा पुष्प-वस्त्रादिभिः पूजनं सर्वकाले ॥२॥ भोजनसमये शयने विबोधने प्रवसने भये व्यसने । पञ्चनमस्कारं खलु स्मरेत् सर्वकार्येषु ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org