SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ द्वाविंशं रथनेमीयमध्ययनम् इहानन्तराध्ययने विविक्तचर्योक्ता, सा च चारित्रिणा धृतिमता च कर्तुं शक्यतेऽतः कथञ्चिदुत्पन्नविस्रोतसिकेनापि रथनेमिवच्चरणे चारित्रे धृतिराधेयेत्यनेन सम्बन्धेनायातस्यास्य रथनेमीयाख्यस्य द्वाविंशाध्ययनस्य प्रस्तावनार्थं श्रीनेमिचरितं किञ्चिल्लिख्यते । तथाहि रम्ये कस्मिंश्चिदेकस्मिन् सन्निवेशे श्रियाऽऽश्रिते । कुलपुत्रो धनाभिख्यो ग्रामाध्यक्षोद्वहोऽभवत् ॥१॥ तन्मातुलसुता तस्य जज्ञे धनवती प्रिया । ग्रीष्मर्तावन्यदा सोऽगादरण्यानी सतन्त्रकः ॥२॥ प्रयोजनवशात् तत्र भ्रमन् सोऽपश्यदेककम् । साधु सार्थपरिभ्रष्टं भूगतं धमनीकृशम् ॥३॥ क्षुत्-तृषाऽऽति-पथश्रान्ति-संशुष्यद्गल-तालुकम् । कृच्छ्राज्जिगमिषुप्राणं विनिमीलितलोचनम् ॥४॥ युग्मम् धनोऽथ दध्यिवानेष सुतपस्वी महामुनिः । कुतोऽपि हेतोः सम्प्राप्तः कश्चिदेतादृशीं दशाम् ।।५।। ततः सञ्जातकरुणो भक्त्याऽम्भोभिः सिषेच तम् । चेलाञ्चलसमीरेण देहसंवाहनेन च ॥६॥ सुस्थं कृत्वा पुरं नीत्वा प्रत्यचारीत् सदौषधैः । साधुरप्युचितं धर्मोपदेशं ददिवान् मुदा ॥७॥ युग्मम् "संसारे दुहपउरे परलोगहियं बुहेण कायव्वं । ता मंस-मज्ज-पारद्धिमाइ ण करेज्ज कइया वि ॥१॥ १. संसारे दुःखप्रचुरे परलोकहितं बुधेन कर्तव्यम् । तत् मांस-मद्य-पापादि न कुर्यात् कदाऽपि ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy