________________
५९८
उत्तरज्झयणाणि-२ तथापरीसहा दुव्विसहा अणेगे सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खू संगामसीसे इव नागराया ॥१७॥
व्याख्या-परीषहाः क्षुधादयो दुर्विषहा दुःसहा 'उद्यान्तीति सम्बन्धः' । सीदन्ति संयम प्रति शिथिलीभवन्ति । 'जत्था' इति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहुकातरा नराः 'से' इति स तत्र तेषु 'पत्ते' त्ति वचनव्यत्ययात् प्राप्तेषु नाव्यथत न चलितो वा सत्त्वाद् भिक्षुः सन् सङ्ग्रामशीर्ष इव नागराजो गजेन्द्रः ॥१७॥
सीओसणा दंस-मसा य फासा आयंका विविहा फुसंति देहं । अकुक्कुओ तत्थऽहियासइज्जा रयाई खेविज्ज पुरा कडाइं ॥१८॥
व्याख्या-शीतोष्णे दंश-मशकाश्च प्रतीताः, स्पर्शास्तृणादीनाम्, आतङ्का रोगा विविधाः स्पृशन्त्युपतापयन्ति देहं 'तथापीति गम्यम्' । 'अकुक्कुओ'त्ति आर्षत्वान्न कुत्सितं कूजति पीडितः सन्नाक्रन्दतीत्यकुकूजस्तत्र शीतादिष्वध्यसहत । एवंविधश्च रजांसि जीवमालिन्यहेतुतया कर्मणा 'खेविज्ज'त्ति अक्षिपत परीषहसहनादिभिः क्षिप्तवान् ॥१८॥
पहाय रागं च तहेव दोसं मोहं च भिक्खू सययं वियखणो । मेरु व्व वाएण अकंपमाणो परीसहे आयगुत्ते सहिज्जा ॥१९॥
व्याख्या-प्रहाय त्यक्त्वा रागं द्वेषं च तथैव मोहं मिथ्यात्वादिरूपमज्ञानं वा भिक्षुः सततं विचक्षणो मेरुवद् वातेनाकम्पमानः परीषहान् आत्मना गुप्त आत्मगुप्तः कूर्मवत् संकुचिताङ्गः 'सहिज्ज'त्ति असहत ॥१९॥
अणुन्नए नावणए महेसी न यावि पूयं गरहं च संजए । से उज्जुभावं पडिवज्ज संजए निव्वाणमग्गं विरए उवेइ ॥२०॥
व्याख्या-अनुन्नतो नावनतश्च महर्षिर्न चापि पूजां गहाँ च 'प्रतीति शेषः' 'संजए'त्ति असजत् सङ्गं कृतवान् तत्र चानुन्नतत्वमनवनतत्वं च हेतुः, भावत उन्नतो हि पूजां प्रति, अवनतश्च गहाँ प्रति, सङ्ग कुर्यान्नत्वन्यथेति भावः । 'से' इति स एवं गुणवान् ऋजुभावमार्जवं प्रतिपद्याङ्गीकृत्य संयतो निर्वाणमार्ग विरतः सन्नुपैति प्राप्नोति ॥२०॥
तदा स कीदृक् किं करोति ? इत्याहअरइ-रइसहे पहीणसंथवे विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई छिन्नसोए अममो अकिंचणो ॥२१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org