________________
एकविंशं समुद्रपालीयमध्ययनम्
५९९ __व्याख्या-अरति-रती संयमासंयमविषये सहते ताभ्यां न बाध्यते इत्यरतिरतिसहः । प्रहीणः प्रक्षीणः संस्तवः पूर्व-पश्चात्परिचयरूपो गृहिभिः सह यस्य स तथा । विरत: आत्महितः । प्रधानः सर्वसंयमो मुक्तिहेतुत्वादस्यास्त्यऽसौ प्रधानवान् । परमश्चासावर्थश्च परमार्थो मोक्षस्तस्य पदानि सम्यग्दर्शनादीनि तेषु तिष्ठति । छिन्नानि स्रोतांसि मिथ्यादर्शनादीनि येनासौ छिन्नस्त्रोताः छिन्नशोको वाऽत एवाममोऽकिञ्चनः । इह च संयमविशेषाणामानन्त्यात् तदभिधायिपदानां पुनः पुनरभिधानेऽपि न पौनरुक्त्यम् ॥२१॥
विवित्तलयणाइ भएज्ज ताई निरोवलेवाइं असंथडाई । इसीहि चिन्नाइ महायसेहि काएण फासेज्ज परीसहाई ॥२२॥
व्याख्या-विविक्तानि लयनानि स्त्र्यादिरहितोपाश्रयरूपाण्यत एव निरुपलेपानि भावतोऽभिष्वङ्गरूपोपलेपवर्जितानि द्रव्यतस्तदर्थं नोपलिप्तानि । असंस्तृतानि बीजादिभिरव्याप्तानि । अत एव निर्दोषतया ऋषिभिर्मुनिभिश्चीर्णान्यासेवितानि महायशोभिः 'भएज्ज'त्ति अभजदिति सम्बन्धः । तथा कायेनास्पृशत् सोढवानित्यर्थः 'चस्याध्याहारात्' परीषहांश्च । पुनः पुनः परीषहस्पर्शनाभिधानमतिशयख्यापनार्थम् ॥२२॥
ततः स कीदृगऽभूद् ? इत्याहस नाण-नाणोवगए महेसी अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरे नाणधरे जसंसी ओभासई सूरिए वंतलिक्खे ॥२३॥
व्याख्या-स समुद्रपालनामा मुनिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानमवगमः 'प्रक्रमाद् यथावत् क्रियाकलापस्य' तेनोपगतो युक्तो ज्ञान-ज्ञानोपगतो महर्षिरनुत्तरं चरित्वा धर्मसंचयं क्षान्त्यादिधर्मसमूहम् । अनुत्तरमुत्कृष्टं यज्ज्ञानं केवलाख्यं तद्धरो यशस्वी 'ओभासइ'त्ति अवभासते प्रकाशते सूर्यवदन्तरिक्षे, यथाकाशे सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवल इति ॥२३॥
अध्ययनोपसंहारमाहदुविहं खवेऊण य पुन्न-पावं निरंगणे सव्वओ विप्पमुक्के । तरित्ता समुदं व महाभवोहं समुद्दपाले अपुणागमं गए ॥२४॥
त्ति बेमि ॥ व्याख्या-द्विविधं घात्यघातिकर्मभेदेन पुण्य-पापं शुभाशुभप्रकृतिरूपं अर्थात् कर्म क्षपयित्वा 'अगेर्गत्यर्थत्वात्' निरङ्गनः 'प्रस्तावात् संयमे' निश्चलः शैलेश्यवस्थां प्राप्त
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org