________________
एकविंशं समुद्रपालीयमध्ययनम्
५९७ इति दयाऽनुकम्पी । क्षान्त्या न त्वशक्त्या क्षमते-प्रत्यनीकदुर्वचनानि सहते इति क्षान्तिक्षमः । संयतश्चासौ ब्रह्मचारी च स तथा । ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थं पुनस्तद्ग्रहणम् । सावद्ययोगं परिवर्जयन्नचरद् भिक्षुः सुसमाहितेन्द्रियः ॥१३॥
कालेण कालं विहरेज्ज टे बलाबलं जाणिय अप्पणो उ । सीहो व सद्देण न संतसिज्जा वयजोग सुच्चा न असब्भमाहु ॥१४॥
व्याख्या-कालेन पादोनपौरुष्यादिना कालमिति कालोचितं प्रत्युपेक्षणादि 'कुर्वन्निति शेषः' व्यहरद् राष्ट्र मण्डले बलाबलं सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः स्वस्य । यथा यथा संयमयोगहानिर्न स्यात् तथा तथेति भावः । अन्यच्च सिंहवच्छब्देन भयोत्पादकेन न समत्रस्यन्नैव सत्त्वाच्चलितवानत एव च वाग्योगमाद् दुःखजनकं श्रुत्वा न नैवाऽसभ्यमश्लीलरूपं 'आहुत्ति उक्तवान् ॥१४॥
तहि किमऽयमकरोद् ? इत्याहउवेहमाणो उ परिव्वइज्जा पियमप्पियं सव्व तितिक्खएज्जा । न सव्व सव्वत्थऽभिरोयइज्जा न यावि पूर्य गरहं च संजए ॥१५॥
व्याख्या-उपेक्षमाणस्तमश्लीलवचनादिकमवधीरयन्नेव पर्यव्रजत् । तथा प्रियमप्रियं सर्वं 'तितिक्खएज्ज'त्ति अतितिक्षत सोढवान् । किञ्च न सर्वं वस्तु सर्वत्र स्थानेऽभ्यरोचयत न यथादृष्टाभिलाषुकोऽभूदिति भावो न चापि पूजां गहाँ च परापवादरूपां चाभ्यरोचयतेति योज्यम् ॥१५॥
ननु भिक्षोरप्यन्यथाभावः किं सम्भवति ? येनेत्थमित्थं तद्गुणाभिधानमित्याहअणेगछंदा इह माणवेहिं जे भावओ संपकरेइ भिक्खू । भय-भेरवा तत्थ उइंति भीमा दिव्वा मणुस्सा अदुवा तिरिच्छा ॥१६॥
व्याख्या अनेके च्छन्दा अभिप्रायाः 'सम्भवन्तीति गम्यम्' इह जगति 'सुब्ब्यत्ययात्' मानवेषु 'जे' इति यान् छन्दान् भावतस्तत्त्वत औदयिकादिभावतो वा संप्रकरोति भृशं विधत्ते भिक्षुरपि 'अपेरत्र गम्यमानत्वात्' अत इत्थमित्थं तद्गुणाभिधानमिति भावः । अपरं च भयभैरवा भयोत्पादकत्वेन भीषणास्तत्रव्रताङ्गीकारे 'उइंति'त्ति उद्यान्ति उदयं यान्ति । भैरवा इत्युक्तेऽपि पुनर्भीमा इति ग्रहणमतिरौद्रताख्यापनार्थम् । दिव्या मानुष्याः ‘अदुव' त्ति अथवा तैरश्चा: 'उपसर्गा इति गम्यते' ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org