________________
उत्तरज्झयणाणि-२ अहो ! अशुभानां कर्मणां निर्याणमवसानं पापकमशुभमिदं प्रत्यक्षम्, यदसौ वराको वधार्थमित्थं नीयते इति भावः ॥९॥
संबुद्धो सो तहिं भगवं परं संवेगमागओ ।
आपुच्छम्मा-पियरो पव्वए अणगारियं ॥१०॥ व्याख्या-एवं च भावयन् सम्बुद्धो ज्ञाततत्त्वः स वणिक्पुत्रस्तत्रेति प्रासादालोकने भगवान् माहात्म्यवान् परं प्रकृष्टं संवेगमागतश्चापृच्छ्य माता-पितरौ 'पव्वए' त्ति प्रावाजीत् प्रकर्षेण गतवाननगारितां दीक्षां प्रतिपन्नवानित्यर्थः ॥१०॥
प्रव्रज्य च यदसौ कृतवांस्तदाहजहित्तुं संगं थ महाकिलेसं महंतमोहं कसिणं भयावहं । परियायधम्मं चऽभिरोयएज्जा वयाणि सीलाणि परीसहे य ॥११॥
व्याख्या-हित्वा त्यक्त्वा सङ्गं स्वजनादिप्रतिबन्धं 'थः पूरणे निपात:' महान् क्लेशो यस्मात् यस्मिन् वा स तथा तम् । महान् मोहोऽभिष्वङ्गो यस्मिन् स तथा तम् । कृत्स्नं सर्वं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेनात एव भयावहं विवेकिनाम् । ततः 'परियाय' त्ति पर्यायः प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं 'चः पादपूर्ती' 'अभिरोयएज्ज' त्ति 'आर्षत्वात् शस्तन्यर्थे सप्तमी' ततोऽभिरोचितवांस्तदनुष्ठाने प्रीति कृतवान् । एवमुत्तरक्रियास्वपि यथासम्भवं भावनीयम् । पर्यायधर्ममेव विशेषेणाह-व्रतानि महाव्रतानि, शीलानि पिण्डविशुद्ध्याधुत्तरगुणरूपाणि, परीषहानिति 'भीमो भीमसेनेति न्यायेन' परीषहसहनानि च ॥११॥
एतदभिरुच्यनन्तरं यत् कृतवांस्तदाहअहिंस-सच्चं च अतेणगं च तत्तो य बंभं अपरिग्गहं च । पडिवज्जिया पंच महव्वयाइं चरिज्ज धम्मं जिणदेसियं विऊ ॥१२॥
व्याख्या-अहिंसां सत्यमस्तैन्यकं ततश्च ब्रह्मचर्यमपरिग्रहं च प्रतिपद्य पञ्च महाव्रतानि 'चरिज्ज'त्ति प्राग्वदचरत् नाङ्गीकृत्यैवाऽतिष्ठदिति भावः । धर्मं श्रुत-चारित्ररूपं जिनदेशितं 'विऊ' त्ति विद्वान् जानानः ॥१२॥
सव्वेहिं भूएहिं दयाणुकंपे खंतिक्खमे संजयबंभयारी । सावज्जजोगं परिवज्जयंतो चरिज्ज भिक्खू सुसमाहिइंदिए ॥१३॥ व्याख्या-'सुब्ब्यत्ययात्' सर्वेषु भूतेषु प्राणिषु दयया रक्षोपदेशरूपयाऽनुमकम्पत
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org