SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ एकविंशं समुद्रपालीयमध्ययनम् व्याख्या-अथ पालितस्य गृहिणी भार्या समुद्रे प्रसूतेऽथ बालकः सुतस्तस्मिन् प्रसवने जातः समुद्रपाल इति नामकः ॥४॥ ततश्च खेमेण आगए चंपं सावए वाणिए घरं । संवड्डई घरे तस्स दारए से सुहोईए ॥५॥ व्याख्या-क्षेमेण कुशलेनागतश्चम्पां श्रावकः 'घरं' ति गृहं 'चस्य गम्यत्वात्' स्वकीयं गृहं चागतः । कृतं च तत्र वर्धापनकादि । संवर्धते गृहे तस्य पालितस्य दारकः स सुखैरुचितः सुखोचितः सुकुमारोऽकर्कशः ।।५|| बावत्तरी कलाओ य सिक्खिए नीइकोविए । जुव्वणेण य संपन्ने सुरूवे पियदंसणे ॥६॥ व्याख्या-ततः कलाग्रहणयोग्यतां प्राप्तः स द्वासप्ततिकलाः शिक्षितो नीतिकोविदो न्यायाभिज्ञो यौवनेन च सम्पन्नो युक्तोऽत एव सुरूपः प्रियदर्शनः सर्वेषामानन्दकः ।।६।। तस्स रूववइं भज्जं पिया आणेइ रूविणिं । पासाए कीलए रम्मे देवो दोगुंदगो जहा ॥७॥ व्याख्या-विवाहयोग्यतां च तस्य ज्ञात्वा रूपवती भार्यां पिता पालितो वणिगानयति रूपिणी रूपिणिनाम्नीम् । परिणायितश्च तामसौ प्रासादे क्रीडति रमते 'तया सहेति शेषः' रम्ये मनोहरे देवो दोगुन्दको यथा ॥७॥ अह अन्नया कयाई पासायालोयणे ट्ठिओ । वज्झमंडणसोभागं वज्झं पासइ वज्झगं ॥८॥ व्याख्या अथान्यदा कदाचित् प्रासादालोकने सौधगवाक्षे स्थितः सन् वध्यमण्डनानि रक्तचन्दन-करवीरादीनि तैः शोभा यस्याऽसौ वध्यमण्डनशोभाकस्तं तादृशं वध्यं वधार्ह कञ्चनाकार्यकारिणं नरं पश्यति बाह्यगं बहिर्नीयमानं वध्यभूमिगतं वा ॥८॥ तं पासिऊण संवेगं समुद्दपालो इणमब्बवी । अहो ! असुहाण कम्माणं निज्जाणं पावगं इमं ॥९॥ व्याख्या-तं तथाविधं वध्यं दृष्ट्वा संवेगः संसारवैमुख्यतो मुक्त्यभिलाषस्तद्धेतुत्वात् सोऽपि संवेगस्तं संवेगजनकमित्यर्थस्ततश्च समुद्रपाल इदमब्रवीत् । यथा ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy