________________
एकविंशं समुद्रपालीयमध्ययनम्
अनन्तराध्ययनेऽनाथत्वमुक्तमिह तदालोचनाद् विविक्तचर्ययैव चरितव्यमिति तामभिधातुमाह
चंपाए पालिए नामं सावए आसि वाणिए ।
महावीरस्स भगवओ सीसो सो उ महप्पणो ॥१॥ व्याख्या-चम्पायां पुरि पालितनामा सार्थवाह: श्रावक आसीदभूद् वाणिजो वणिग्जातिः । महावीरस्य भगवतः शिष्यः स 'तुर्विशेषणे' महात्मनः प्रशस्यात्मनः ॥१॥ स च कीदृग् ? इत्याह
निग्गंथे पावयणे सावए से विकोविए ।
पोएण ववहरते पिहुंडं नगरमागए ॥२॥ व्याख्या-नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने श्रावकः स विशेषेण कोविदो जीवादिपदार्थज्ञाता पोतेन व्यवहरन् प्रवहणवाणिज्यं कुर्वन् पिहुण्डं नगरमागतः प्राप्तः ॥२॥ तत्र च
पिहुंडे ववहरंतस्स वाणिओ देइ धूयरं ।
तं ससत्तं पईगिज्झ सदेसमह पत्थिओ ॥३॥ व्याख्या-पिहुण्डे व्यवहरतस्तस्य तद्गुणाकृष्टचेताः कश्चिद् वणिग् ददाति 'धूयरं' ति दुहितरं पुत्रीं 'तां चोदूढवान्, स्थित्वा च तत्र कियत्कालमित्यध्याहारः' । ततस्तां ससत्त्वां सगर्भा प्रतिगृह्याऽऽदाय स्वदेशं प्रत्यथ प्रस्थितश्चलितः ॥३॥ तत्रागच्छतः किमजनि ? इत्याह
अह पालियस्स घरणी समुइंमि पसवई । अह बालए तहिं जाए समुद्दपालि त्ति नामए ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org