________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम्
५९३ साधुः किं कृतवान् ? इत्याह
इयरो वि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य । विहग इव विप्पमुक्को विहरइ वसुहं विगयमोहो ॥६०॥ त्ति बेमि ॥
व्याख्या-इतरः संयतोऽपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदण्डविरतश्च विहग इव पक्षीव विप्रमुक्तः क्वचिदपि प्रतिबन्धरहितो विहरति वसुधां विगतमोहः । इति ब्रवीमीति प्राग्वत् ॥६०॥ ग्रं० २४५-१६।। इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
विंशतितमं महानिर्ग्रन्थीयमध्ययनं समाप्तम् ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org