________________
५९२
उत्तरज्झयणाणि-२ तथातुज्झं सुलद्धं खु मणुस्सजम्मं लाभा सुलद्धा य तुमे महेसी । तुब्भे सणाहा य सबंधवा य जं भे ठिया मग्गि जिणुत्तमाणं ॥५५॥
व्याख्या-तव सुलब्धं मनुष्यजन्म । लाभा वर्ण-रूपाद्यऽवाप्तिरूपाः सुलब्धास्तव महर्षे ! यूयं सनाथाः सबान्धवाश्च 'तत्त्वत इति गम्यम्' । यद् यस्माद् 'भे' भवन्तः स्थिता मार्गे जिनोत्तमानाम् ।।५५।।
किञ्चतं सि नाहो अनाहाणं सव्वभूयाण संजया ।। खामेमि ते महाभाग ! इच्छामि अणुसासिउं ॥५६॥
व्याख्या-त्वमसि नाथोऽनाथानां सर्वभूतानां हे संयत ! क्षामयामि 'ते' त्ति त्वां हे महाभाग ! इच्छामि अनुशासयितुं शिक्षयितुमात्मानं 'भवतेति गम्यते' ॥५६॥
पुनः क्षामणमेवाहपुच्छिऊण मए तुब्भं झाणविग्यो उ जो कओ । निमंतिया य भोगेहिं तं सव्वं मरिसेहि मे ॥५७॥
व्याख्या-पृष्ट्वा कथं प्रथमवयसि प्रव्रजितः ? इति पर्यनुयुज्य मया तव ध्यानविघ्नस्तु यः कृतो निमन्त्रिताश्चाऽगृहीता यूयं भोगैस्तत् सर्वं 'मरिसेहि' त्ति क्षमस्व 'मे' ममेति ॥५७॥
अध्ययनोपसंहारमाहएवं थुणित्ताण स रायसीहो अणगारसीहं परमाइ भत्तीए । सओरोहो य सबंधवो य धम्माणुरत्तो विमलेण चेयसा ॥५८॥ ऊससियरोमकूवो काऊण य पयाहिणं । अभिवंदिऊण सिरसा अइयाओ नराहिवो ॥५९॥
अनयोाख्या-एवं स्तुत्वा स राजसिंहः श्रेणिकोऽनगारसिंहं 'उभयत्र सिंहशब्दः प्रकृष्टवाचकः' 'सओरोहो'त्ति सावरोधः सान्तःपुर: सबान्धवश्च विमलेनापगतमिथ्वात्वमलेन चेतसोपलक्षितः ।। उच्छृसिता उद्भिन्ना रोमकूपा रोमरन्ध्राणि यस्यासावुच्छसितरोमकूपः कृत्वा प्रदक्षिणामभिवन्द्य च शिरसा 'अइयाओ' त्ति अतियातो गत: 'स्वस्थानमिति गम्यते' इति पद्यद्वयार्थः ॥५८-५९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org