SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् कृत्योपदेशमाह सुच्चाण मेहावि ! सुभासियं इमं अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं महानियंठाण वए पहेणं ॥ ५१ ॥ ५९१ व्याख्या- श्रुत्वा मेधाविन् ! सुष्ठु शोभनप्रकारेण भाषितं सुभाषितमिदमनन्तरोक्तमनुशासनं शिक्षणं ज्ञानेन गुणेन च विरतिरूपेणोपपेतं युक्तं । किं ? मार्गं कुशीलानां हित्वा सर्वं महानिर्ग्रन्थानां व्रजेस्त्वं यथेति ॥ ५१ ॥ ततः किं फलम् ? इत्याह चरित्तमायारगुणन्निए तओ अणुत्तरं संजम पालियाणं । निरासवे संखवियाण कम्मं उवेइ ठाणं विलुत्तमं धुवं ॥५२॥ व्याख्या - चरित्रस्याचार आसेवनं गुणो ज्ञानं ताभ्यामन्वितो 'मोऽलाक्षणिक : ' महानिर्ग्रन्थमार्गगमनादनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवो हिंसाद्या श्रवरहितः 'संखवियाण' त्ति संक्षिपय्य संक्षयं नीत्वा कर्म ज्ञानावरणादि उपैत्युपगच्छति स्थानं विपुलमनन्तानां तत्रावस्थितेरत उत्तमं ध्रुवं नित्यं मुक्तिपदमित्यर्थः ॥५२॥ सर्वोपसंहारमाह एवग्गदंते वि महातवोहणे महामुणी महापइन्ने महायसे । महानियंठिज्जमिणं महासुयं से काहए महया वित्थरेणं ॥५३॥ व्याख्या - एवमुक्तप्रकारेण 'से काहए' त्ति स श्रेणिकपृष्टो महामुनिरकथयदिति सम्बन्धः । स कीदृग् ? उग्र उत्कटः कर्मशत्रुं प्रति दान्तः प्राग्वत् । 'अपिः पूरणे' महातपोधनो महाप्रतिज्ञ इति दृढव्रताभ्युपगमोऽत एव महायशाः । किमकथयद् ? इत्याह–महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयमिदमनन्तरोक्तं महाश्रुतं महाविस्तरेण ॥५३॥ ततश्च तुट्ठो य सेणिओ राया इणमुदाहु कयंजली । अणाहत्तं जहाभूयं सुट्टु मे उवदंसि ॥५४॥ व्याख्या- तुष्टश्च श्रेणिको राजा इदं वच इति शेषः ' 'उदाहु' त्ति-उक्तवान् कृताञ्जलिः । तदेवाह - अनाथत्वं यथाभूतं यथावस्थितं सुष्ठु यथास्यान्मे उपदर्शितं ' त्वयेति प्रक्रमः ' ॥५४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy