________________
५९०
उत्तरज्झयणाणि-२ यतश्चैवमतःन तं अरी कंठछित्ता करेइ जं से करे अप्पणिया दुरप्पा ।
से नाहिई मच्चुमुहं तु पत्ते पच्छाणुतावेण दयाविहूणे ॥४८॥ व्याख्या-न नैव 'तमिति प्रस्तावादनर्थम्' अरिः कण्ठच्छेत्ता प्राणहर्ता करोति । यत् 'से' तस्य करोत्यात्मीया दुरात्मा दुष्टाचारप्रवृत्तिरूपा । न चैनामाचरन्नपि जन्तुरमूढतया वेत्ति । परं स दुरात्मताकर्ता ज्ञास्यति दुरात्मतां मृत्युमुखं तु प्राप्तः । पश्चादनुतापेन हा ! दुष्टं मयाऽनुष्ठितमित्येवंरूपेण दया संयमोऽहिंसा वा 'सत्याधुपलक्षणमिदं' तद्विहीनः सन् । अतो महाऽनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता त्याज्यैवेति भावः ॥४८॥
यस्त्वन्तेऽपि तां न वेत्स्यति तस्य किम् ? इत्याहनिरट्ठिया नग्गरुई उ तस्स जे उत्तमढे विवज्जासमेइ । इमे वि से नत्थि परे वि लोए दुहओ वि से झिज्झइ तत्थ लोए ॥४९॥
व्याख्या-'तरवधारणे' निरर्थिकैव निष्फलैव नाग्न्ये श्रामण्ये रुचिरिच्छा नाग्न्यरुचिस्तस्य यः 'उत्तमढे' त्ति 'अपेर्गम्यत्वाद्' उत्तमार्थेऽपि पर्यन्तसमयाराधनरूपेऽपि विपर्यासं दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपमेति गच्छति । अन्यस्य तु स्यादपि किञ्चित् फलमिति भावः । यतोऽयमपि प्रत्यक्षो लोक: 'से' तस्य नास्ति देहक्लेशहेतुलोचादिसेवनात् । तथा परोऽपि भवान्तररूपोऽपि लोकः कुगतिगमनादनेकदुःखसम्भवाच्च । तथा च 'दुहओ वि' त्ति द्विधाप्यैहिक-पारत्रिकार्थाभावेन 'से झिज्झइ' त्ति स उभयलोकार्थसम्पत्तिमतो जनानवलोक्य धिग् मां निष्पुण्यकमुभयभ्रष्टतयेति चिन्तया क्षीयते तत्रेत्युभयरूपे लोके ॥४९।।
उक्तार्थोपसंहारमाहएमेवहाछंदकुसीलरूवे मग्गं विराहेत्तु जिणुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा निरट्ठसोया परियावमेइ ॥५०॥ व्याख्या-एवमेव महाव्रतास्पर्शादिना प्रकारेण यथाच्छन्दाः स्वरुचिविरचिताचाराः कुशीलाश्च प्रतीतास्तद्रूपस्तत्स्वभावो मार्ग विराध्य जिनोत्तमानां कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थो निष्प्रयोजनः शोको यस्याः सा तथा परितापं पश्चात्तापरूपमेति गच्छति । यथा चैषामिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते न च ततः प्रतीकार एवमसावपि भोगरसगृद्धो लोकद्वयानर्थप्राप्तौ । ततोऽस्य स्व-परपरित्राणासमर्थत्वेनानाथत्वमिति भावः ॥५०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org