________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम्
इहैव हेतुमाह
विसं तु पीयं जह कालकूडं हणाइ सत्थं जह कुग्गहीयं । एसेव धम्मो विसओववन्नो हणाइ वेयाल इवाविवन्नो ॥ ४४ ॥
व्याख्या - विषं तु पीतं यथा कालकूटं 'हणाइ' त्ति हन्ति 'चस्य गम्यत्वात् ' शस्त्रं च यथा कुत्सितं गृहीतं हन्तीति योगः । एष एवं विषादिवद् धर्मो यतिधर्मो विषयैः शब्दादिभिरुपपन्नो युक्तो हन्ति दुर्गतिपातहेतुत्वेन 'चस्य गम्यत्वाद्' वेताल इव 'अविवन्नो' त्ति अविपन्नोऽप्राप्तविपद् मन्त्रादिभिरनियन्त्रित इति भावः || ४४ ||
जे लक्खणं सुविण पउंजमाणे निमित्त कोऊहलसंपगाढे । कुहेडविज्जासवदारजीवी न गच्छई सरणं तंमि काले ॥ ४५ ॥
५८९
व्याख्या - यो लक्षणं पुरुषादीनां स्वप्नं च प्रतीतं प्रयुञ्जानो व्यापारयन्, निमित्तं भौमादि कौतुकमपत्याद्यर्थं स्नानादि तयोः सम्प्रगाढोऽतिशयासक्तः । कुहेटकविद्या अलीकाश्चर्यकारिमन्त्राद्यात्मिकास्ता एव कर्मबन्धहेतुत्वाद् आश्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी न गच्छति न प्राप्नोति शरणं त्राणां दुष्कृतरक्षाक्षमं तस्मिन् फलोपभोगकाले ॥४५॥
अमुमेवार्थं भावयति—
तमंतमेणेव उ से असीले सया दुही विप्परियासुवेइ ।
संधावई नरग - तिरिक्खजोणि मोणं विराहित्तु असारूवे ॥ ४६ ॥
व्याख्या - अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव 'तुः पूरणे' स द्रव्ययतिरशीलः सदा दुःखी विराधनाजनितदुःखेनैव 'विप्परियासुवेइ' त्ति विपर्यासं तत्त्वादिषु वैपरीत्यमुपैत्युपगच्छति । ततश्च संधावति सततं गच्छति नरक - तिर्यग्योनी : मौनं चारित्रं विराध्याऽसाधुरूपस्तत्त्वतोऽयतिस्वभावः सन् ॥४६॥
कथं स तद्गती संधावतीत्याह
उद्देसियं कीयगडं नियागं न मुंबई किंचि अणेसणिज्जं । अग्गी विवा सव्वभक्खी भवित्ता इओ चुओ गच्छइ कट्टु पावं ॥४७॥
व्याख्या - उद्देशिकं प्रतीतं, क्रयणं क्रीतं तेन कृतं क्रीतकृतं, नियागं नित्यपिण्डं न मुञ्चति किञ्चिदऽप्यनेषणीयम् । अग्निरिव 'विवेतीवार्थे' 'प्राकृतत्वादाकारः' सर्वं प्रासुकाऽप्रासुकादि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा इतश्च्युतो गच्छति 'कुगतिमिति शेष: '
कृत्वा पापमिति ॥४७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org