________________
५८८
उत्तरज्झयणाणि-२ भाषायां तथैषणायां आदान-निक्षेपयोरुपकरणग्रहण-न्यासयोः । जुगुप्सनायां इहोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न वीरैधीरैर्यातो वीरयातस्तमनुयात्यऽनुगच्छति मार्ग मुक्तिपथमल्पसत्त्वतयेति भावः ॥४०॥
तथाचिरं पि से मुंडरुई भवित्ता अथिरव्वए तव-नियमेहि भट्ठे । चिरं पि अप्पाणं किलेसइत्ता न पारए होइ हु संपराए ॥४१॥
व्याख्या-चिरमपि प्रभूतकालमपि स मुण्ड एव 'मुण्डनं मुण्डः केशापनयनात्मकः तस्मिन्नेव शेषानुष्ठानपराङ्मुखतया रुचिर्यस्य स मुण्डरुचिर्भूत्वा । अस्थिरवतो गृहीतमुक्तत्वात् तपो-नियमेभ्यो भ्रष्टश्चिरमप्यात्मानं क्लेशयित्वा 'लोचनादिनात्मनैवेति गम्यते' । न पारगः पर्यन्तगामी भवति । 'हुरलङ्कारे' सम्परायस्य संसारस्य 'सुळ्यत्ययात् सूत्रे सप्तमी' ॥४१॥
स चैवंविधःपोल्लेव मुट्ठी जह से असारे अयंतिए कूडकहावणे वा । राढामणी वेरुलियप्पगासे अमहग्घए होइ हु जाणएसु ॥४२॥
व्याख्या-पोल्लैवात्यन्तशुषिरैव न मनागपि निबिडा मुष्टिः प्रतीता । यथा साऽसारा । 'अयंतिए' त्ति अयन्त्रितः कूटकार्षापण इव 'वा इवार्थे' । यथा ह्यसौ न केनचित् कूटतया नियन्त्र्यते । तथेषोऽपि निर्गुणत्वादुपेक्षणीयः, राढामणिः काचमणिवैडूर्यप्रकाशी वैडूर्यमणिसदृशः अमहाघकोऽल्पमूल्यक एव भवति 'हुरेवार्थे' 'जाणएसु' त्ति ज्ञेषु मुग्धजनविप्रतारकत्वात् तस्य ॥४२॥
कुसीललिंगं इह धारइत्ता इसिज्झयं जीविय वूहइत्ता । असंजए संजय लप्पमाणे विणिघायमागच्छइ से चिरं पि ॥४३॥
व्याख्या-कुशीललिङ्गं पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा ऋषिध्वजं मुनिचिह्न रजोहररणादि, 'जीविय' त्ति 'आर्षत्वाद् बिन्दुलोपे' जीवितमसंयमजीवितं जीविकां वा निर्वहणोपायरूपां बृंहयित्वा पोषयित्वाऽत एवाऽसंयतः सन् 'संजय लप्पमाणे' त्ति 'सोपस्कारत्वात्' संयतमात्मानं लपन् विनिघातं विविधाभिघातरूपमागच्छत्यायाति स चिरमप्यास्तामल्पकालं नरकादाविति भावः ॥४३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org