________________
५८६
उत्तरज्झयणाणि-२ 'दुक्खमा हु' त्ति 'हुरेवार्थे' ततो दुःक्षमैव दुःसहैव पुनः पुनर्वेदनाऽक्षिरोगप्रमुखा व्यथाऽनुभवितुं 'जे पूरणे' अनन्तके संसारेऽक्षीणकर्मणो हि मम प्रतिभवं जायमाना वेदना दुःसहा । अतस्तद्बीजभूतकर्मक्षयार्थमेव यतिष्ये इत्यर्थः ॥३१॥ अत एवाह
सइं च जइ मुच्चिज्जा वेयणा विउला इओ ।
खंतो दंतो निरारंभो पव्वए अणगारियं ॥३२॥ व्याख्या-'चशब्दोऽप्यर्थः' ततः सकृदप्येकदाऽपि यदि मुच्येय ‘अहमिति गम्यते,' कुतः ? वेदनाया विपुलाया विस्तीर्णाया इतोऽस्या अनुभूयमानायास्ततः किम् ? इत्याह-क्षान्तः क्षमावान्, दान्त इन्द्रिय-नोइन्द्रियदमेन, निरारम्भः, प्रव्रजेयं प्रतिपद्येयमनगारिताम्, येन संसारोच्छित्या वेदनाऽभावः स्यादिति भावः ॥३२॥
एवं च चिंतइत्ताणं पसुत्तो मि नराहिवा ! ।
परियत्तंतीइ राईए वेयणा मे खयं गया ॥३३॥ व्याख्या-एवं न केवलमुक्त्वा चिन्तयित्वा च प्रसुप्तोऽस्मि । 'परियत्तंतीइ' इति परिवर्तमानायामतिक्रामन्त्यां रात्रौ वेदना मे क्षयं गता ॥३३॥
तओ कल्ले पभायंमि आपुच्छित्ताण बंधवे ।
खंतो दंतो निरारंभो पव्वईओ अणगारियं ॥३४॥ व्याख्या-ततो वेदनोपशमानन्तरं कल्यो नीरोगः सन् प्रभाते आपृच्छ्य मातृपितृबान्धवप्रमुखान् क्षान्तो दान्तो निरारम्भः सन् प्रव्रजितः । कोऽर्थः ? प्रतिपन्नवाननगारितां साधुतामिति ॥३४॥
तओ हं नाहो जाओ अप्पणो य परस्स य ।
सव्वेसिं चेव भूयाणं तसाणं थावराण य ॥३५॥ व्याख्या-ततः प्रव्रज्याप्रतिपत्तेरहं नाथो जातो योग-क्षेमकरणक्षम इति भावः । आत्मनः स्वस्य परस्य वाऽन्यस्य पुरुषादेः सर्वेषां चैव भूतानां जीवानां त्रस्यन्तीति त्रसास्तेषां त्रसानां तिष्ठन्तीति स्थावरास्तेषां स्थावराणां च ॥३५॥ किमिति प्रव्रजितानन्तरं नाथत्वं जातम् ? पुरा नेत्याह
अप्पा नई वेयरणी अप्पा मे कूडसामली । अप्पा कामदुहा घेणू अप्पा मे नंदणं वणं ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org