________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम्
तथा
भायरो मे महाराय ! सगा जेट्ठ-कणिट्ठगा ।
न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥२६॥ व्याख्या-भ्रातारो मे 'सग' त्ति सौदर्याः स्वका वा आत्मीया ज्येष्ठा अग्रजाः कनिष्ठा अनुजाः । शेषं स्पष्टम् ॥२६।।
भयणीओ मे महाराय ! सगा जेट्ठ-कणिट्ठिगा ।
न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥२७॥ व्याख्या-'भयणि' त्ति भगिन्यः । शेषं सुगमम् ॥२७।।
भारिया मे महाराय ! अणुरत्ता अणुव्वया ।
अंसुपुन्नेहिं नयणेहिं उरं मे परिसिंचई ॥२८॥ व्याख्या-भार्या पत्नी अनुरक्तानुरागवती अन्विति कुलानुरूपं व्रतमाचारोऽस्याः साऽनुव्रता पतिव्रतेत्यर्थः । अश्रुपूर्णैर्नयनैरुरो वक्षो मे परिषिञ्चति समन्तात् प्लावयति ॥२८॥
तथा
अन्नं पाणं च न्हाणं च गंध-मल्ल-विलेवणं ।
मए नायमनायं वा सा बाला नोवभुंजई ॥२९॥ व्याख्या-अन्नं चतुर्विंशतिधान्यात्मकं, पानं पानीयं, स्नानं च, गंधं च माल्यं च विलेपनं च कर्पूरादि गन्धमाल्यविलेपनं एतन्मया ज्ञातमज्ञातं वा सद्भावसारमित्यर्थः । सा भार्या बाला नवयौवना नोपभुङ्क्ते नासेवते मम विरहदुःखदुःखिता सतीति ॥२९॥
खणं पि मे महाराय ! पासओ वि न फिट्टई ।
न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥३०॥ व्याख्या-क्षणमात्रमपि महाराज ! 'पासाओ वि न फिट्टई' त्ति 'अपिश्चार्थे' मम पाश्र्वाच्च नापयाति न दूरे याति । किन्तु सा सदा सन्निहितैवास्तेऽतिवत्सलत्वेन । न च दुःखाद् विमोचयति । एषा मेऽनाथता ॥३०॥
तओ हं एवमाहंसु दुक्खमा हु पुणो पुणो ।
वेयणा अणुभविउं जे संसारंमि अणंतए ॥३१॥ व्याख्या-ततो रोगाप्रतिकार्यतानन्तरमहमेवम् ‘आहेसु' त्ति उक्तवान् । यथा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org