SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि - २ इत्याह-इन्द्राशनिरिन्द्रवज्रं तत्समा तुल्याऽतिदाहोत्पादकत्वात् । घोरा परेषामपि भयोत्पादिनी वेदनाऽत एव परमदारुणातीवरौद्रा दुःखदायिनीत्यर्थः ॥२१॥ कश्चित् तां किं न प्रतिकृतवान् ? इत्याह ५८४ उट्टिया मे आयरिया विज्जा-मंतचिगिच्छ्गा । अबीया सत्थकुसला मंत- मूलविसारया ॥२२॥ व्याख्या - उपस्थिता वेदनाप्रतीकारं प्रत्युद्यता 'मे' ममाचार्याः प्राणाचार्या वैद्या इति यावत् । विद्या- मन्त्रचिकित्सका विद्या - मन्त्राभ्यां व्याधिप्रतिकर्तारः । अद्वितीया अनन्यसामान्यतया तादृद्वितीयाभावात् । शस्त्रेषु शास्त्रेषु वा कुशलाः । मन्त्राणि प्रणवपूर्वकानि, मूलानि चौषधयस्तेषु विशारदा विज्ञा मन्त्रविशारदत्वेन विना मन्त्रचिकित्सकत्वं न भवतीति न पौनरुक्त्यम् ॥२२॥ न चौपस्थानमात्रेणैव ते स्थिताः, किन्तु — ते मे चिच्छिं कुव्वंति चाउप्पायं जहाहियं । न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥२३॥ व्याख्या - ते मे प्राणाचार्या वैद्याश्चिकित्सां उपचारं कुर्वन्ति । 'चाउप्पायं'ति चतुष्पादां भिषग्–भेषजातुर — प्रतिचारकात्मकभागचतुष्टयात्मिकां 'जहाहियं' ति यथाहितं हितानतिक्रमेण । ततः किम् ? इत्याह-न चैवं कुर्वन्तोऽपि दुःखादेवंविधरोगजनिताद् विमोचयन्ति विशेषेण मुत्कलयन्ति । एषा दुःखाविमोचनरूपा ममानाथता ||२३|| अन्यच्च पिया मे सव्वसारं पि दिज्जाहि मम कारणा । न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥ २४ ॥ व्याख्या - पिता मे सर्वसारमपि निःशेषप्रधानवस्तुरूपं 'दिज्जाहि' त्ति दद्यान्मम कारणान्मोहादिहेतोः । न चैवमादरवानपि दुःखाद् 'विमोयंति' त्ति वचनव्यत्ययाद् विमोचयति । एवं सर्वत्र ॥२४॥ माया वि मे महाराय ! पुत्तसोग - दुहट्टिया । न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥ २५ ॥ व्याख्या - माताऽपि मे पुत्रविषयः शोकः पुत्रशोको हा ! कथमित्थं मत्सुतो दुःखी जात इत्यादिरूपस्ततो दुःखं तेन 'अट्टिय' त्ति आर्ता पीडिता इत्यर्थः । उत्तरार्धं प्राग्वत् ॥२५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy