SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् सुणेह मे महाराय ! अव्वक्खित्तेण चेयसा । जहा अणाहो हवाई जहा में य पवत्तियं ॥१७॥ अनयोर्व्याख्या - न 'तुमं' ति न त्वं जानीषेऽवबुध्यसेऽनाथस्येत्यनाथशब्दस्य अर्थमभिधेयं प्रोत्थां प्रकृष्टोत्थानरूपां हे पार्थिव नृप । अत एव यथा अनाथो भवति सनाथ वा, [हे नराधिप !] तथा च न जानीषे इति योगः ॥ शृणु 'मे' मम 'कथयत इति शेष: ' हे महाराज ! अव्याक्षिप्तेन चेतसोपलक्षितः सन् । किं तद् ? इत्याह-यथा अनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति, यथा 'मे य' त्ति मया च प्रवर्तितमितिप्ररूपितं 'अनाथत्वमिति प्रक्रमः' एतेनोत्थानमुक्तम् ॥१६-१७॥ कोसंबी नाम नयरी पुराणपुरभेयणी । तत्थ आसी पिया मज्झं पभूयधणसंचओ ॥१८॥ व्याख्या - कौशाम्बी नाम नगरी । 'पुराणपुरभेयणि' त्ति पुराणपुराणि भिनत्ति स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी प्रधाननगरीत्यर्थः । तत्रासीत् पिता मम प्रभूतधनसञ्चयो यस्य सः ॥१८॥ पढमे वए महाराय ! अउला मे अच्छिवेयणा । अहोत्था विउलो डाहो सव्वगत्तेसु य पत्थिवा ! ॥ १९ ॥ ५८३ व्याख्या -प्रथमे वयसि प्रक्रमाद् यौवनेऽतुलाऽनुपमा मेऽक्षिवेदना चक्षूरोगजा व्यथा 'अहोत्था'त्ति अभूत् । तथा विपुलो विस्तीर्णो दाहो दाघज्वरः सर्वगात्रेषु सर्वाङ्गोपाङ्गेषु हे पार्थिव ! ||१९|| सत्थं जहा परमतिक्खं सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो एवं मे अच्छिवेयणा ॥२०॥ व्याख्या - शस्त्रं यथा परमतीक्ष्णं 'सरीरविवरंतरे' त्ति शरीरविवराणि कर्णरन्ध्रादीनि तेषामन्तरे मध्ये 'आवीलिज्ज'त्ति आपीडयेद् गाढमवगाहयेदरिर्वैरी क्रुद्ध एवमित्यापीड्यमानशस्त्रवन्ममाक्षिवेदना । यथा तदत्यन्तबाधाकारि तथैषाऽपीति भावः ||२०|| तियं मे अंतरिच्छं च उत्तमंगं च पीडई | इंदासणिसमा घोरा वेयणा परमदारुणा ॥२१॥ व्याख्या - त्रिकं कटिभागं 'मे' मम अन्तरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं, न केवलं बहिस्त्रीकाद्येवेति भावः, उत्तमाङ्गं शिरश्च पीडयति बाधते । कीदृशी का ? Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy