SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-२ मित्राणि सुहृदो ज्ञातयः स्वजनाः सुप्रापा एवेत्यऽतस्तैः परिवृतो भुक्ष्व भोगान् भोः ! संयतेति । यतो मानुष्यं खलु दुर्लभमिति हेत्वभिधानमिति गाथाद्वयार्थः ॥१०-११॥ मुनिराह अप्पणा वि अणाहो सि सेणिया मगहाहिवा ! । अप्पणा अणाहो संतो कहं नाहो भविस्ससि ? ॥१२॥ व्याख्या-आत्मनापि स्वयमपि अनाथोऽसि भोः श्रेणिक ! मगधाधिप ! । ततश्चाऽऽत्मना स्वयं अनाथः सन् कथम् 'अन्येषामिति गम्यते' नाथो भविष्यसि त्वमिति? ॥१२॥ एवं च मुनिनोक्ते एवं वुत्तो नरिंदो सो सुसंभंतो सुविम्हिओ । वयणं अस्सुयपुव्वं साहुणा विम्हयन्निओ ॥१३॥ अत्यन्तविशेषणादस्य व्याख्या-विस्मयान्वितः प्रागपि मुनिगतरूपादिविलोकनप्रभूताश्चर्यवान् स श्रेणिकनामा नरेन्द्र एवमुक्तप्रकारेण वचनं आत्मनैव त्वमनाथोऽसीत्यादिरूपमश्रुतपूर्वं साधुना उक्तः सन् सुसम्भ्रान्तः संशयादत्याकुलः सुविस्मितोऽघटमानार्थोपदेशादतीवविस्मयोपेतो भूत्वा 'उक्तवानिति शेषः' ॥१३॥ यदुक्तवांस्तदाह आसा हत्थी मणुस्सा मे पुरमंतेउरं च मे । भुंजामि माणुसे भोए आणाइस्सरियं च मे ॥१४॥ एरिसे संपयग्गंमि सव्वकामसमप्पिए ।। कहं अणाहो भवई ? मा हु भंते ! मुसं वए ॥१५॥ अनयोाख्या-अश्वादयो मे 'सन्तीति क्रियाऽत्राध्याहार्या' । अत एव भुनज्मि मानुष्यकान् भोगान् यत आज्ञाया ऐश्वर्यं प्रभुत्वं च 'मे' ममेति ॥ तथेदृशेऽनन्तरोक्तरूपे सम्पदामग्रं सम्पदग्रं समृद्धिप्रकर्षस्तस्मिन् सति 'सव्वकामसमप्पिए' त्ति प्राकृतत्वात् समर्पितसर्वकामे कथमनाथोऽस्वामी 'भवई'त्ति पुरुषव्यत्ययेन भवामि ? 'हुस्तस्मादर्थे' यत एवं तस्मान्मा भदन्त ! मृषा 'वए' त्ति वादीरिति सूत्रद्वयार्थः ॥१४-१५।। यतिस्तमाह न तुमं जाणे अणाहस्स अत्थं पुत्थं व पत्थिवा ! । जहा अणाहो हवई सणाहो वा नराहिवा ! ॥१६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy