________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम् किं पृच्छतीत्याह
तरुणो सि अज्जो ! पव्वईओ भोगकालंमि संजया ! । ओ सि सामने एयमद्वं सुणामि ता ॥८॥
व्याख्या - तरुणोऽसि युवास्यार्य ! [ संयत !] यद् भोगकाले भोगोचितसमये प्रव्रजितस्तारुण्यस्य भोगकालत्वात् । त्वं पुनरुपस्थितश्च कृतोद्यमश्च श्रामण्ये चारित्रे एतमर्थं निमित्तं येनार्थेन त्वमीदृश्यामवस्थायां प्रव्रजितः । शृणोमि 'ता' इति तावत् पश्चात् तु यत् त्वं भणिष्यसि, तदपि श्रोष्यामीति भावः ॥ ८ ॥
इत्थं राज्ञोक्ते मुनिराह
अणाहो मि महाराय ! नाहो मज्झ न विज्जई ।
अणुकंप सुहिं वावि कंची नाभिसमेमहं ॥ ९ ॥
व्याख्या - अनाथोस्वामिकोऽस्मीत्यह महाराज ! | कुत: ? इत्याह-यतो नाथो योग - क्षेमकर्ता मम न विद्यते । अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः । तथाऽनुकम्पकमनुकम्पाकर्तारं 'सुहिं' ति सुहृदं वा मित्रं वा कञ्चिदपि नाभिसमेि • नाभिसङ्गच्छाम्यहं न केनचिदऽनुकम्पकेन सुहृदा वा सङ्गतोऽहमित्यादिनार्थेन तारुण्येऽपि प्रव्रजति इति भावः ॥ ९ ॥
एवं च मुनिनोक्ते
तर सो हसिओ राया सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स कहं नाहो न विज्जई ? ॥१०॥ होम नाहो भयंताणं भोगे भुंजाहि संजया ! | मित्त - नाइपरिवुडो माणुस्सं खु सुदुलहं ॥११॥
५८१
अनयोर्व्याख्या - ततः स प्रहसितः - अनाथत्वासम्भावनया विस्मितो राजा नृपः श्रेणिको मगधाधिपः 'कथितवानिति शेषः' । एवमिति दृश्यमानप्रकारेण ऋद्धिमतो विस्मयनीयवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? । यतः
"यत्राकृतिस्तत्र गुणा गुणाढ्ये च स्थिरं धनम् ।
तत्र श्रीः श्रीमतश्चाज्ञा तस्यां राज्यमियं स्थितिः " ॥१॥ इति
तथा च न कथञ्चिदनाथत्वं भवतः सम्भवतीति भावः ॥ यदि चानाथतैव प्रव्रज्याप्रतिपत्तिहेतुः ? ततः 'होमि' त्ति भवाम्यहं भदन्तानां पूज्यानां नाथस्ततश्च मयि नाथे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org