SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ५८० उत्तरज्झयणाणि-२ व्याख्या-तदुद्यानं 'वर्तते इत्युपस्कारः' । स्पष्टमऽन्यत् ॥३॥ तत्थ सो पासई साहुं संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि सुकुमालं सुहोइयं ॥४॥ व्याख्या-तत्र वने स श्रेणिकः पश्यति कं ? साधुम् । साधुः सर्वोऽपि शिष्ट उच्यते, तद्व्यवच्छेदार्थं संयतमित्युक्तम् । सोऽपि च बहि:संयमवान् निह्नवादिरपि स्यादिति सुसमाहितं मनःसमाधानवन्तमित्युक्तम् । निषण्णमुपविष्टं क्व ? वृक्षमूले । सुकुमालं सुकोमलाङ्गावयवम् । 'सुहोइयं' ति सुखोचितं शुभोचितं वा ॥४|| तस्स रूवं तु पासित्ता राइणो तंमि संजए । अच्चंतं परमो आसी अउलो रूवविम्हओ ॥५॥ व्याख्या-तस्य साधो रूपं दृष्ट्वा राज्ञस्तस्मिन् संयतेऽत्यन्तं परमोऽतिशयप्रधानोऽतुल्योऽनन्यसदृशो रूपविषयो विस्मय आसीदिति ॥५॥ कथमित्याह अहो ! वण्णो अहो ! रूवं अहो ! अज्जस्स सोमया । अहो ! खंती अहो ! मुत्ती अहो ! भोगे असंगया ॥६॥ व्याख्या-'अहो ! इत्याश्चर्ये' सर्वत्र । वर्णो गौरतादिः । रूपमाकारः । आर्यस्य पूज्यस्य सौम्यता चन्द्रस्येवानन्ददायिता । अहो ! इति क्षान्तिः क्षमा । मुक्तिनिलोभता । पुनः भोगे असङ्गता निःस्पृहता ॥६॥ ततः किमकार्षीदित्याह तस्स पाए उ वंदित्ता काऊण य पयाहिणं । नाइदूरमणासन्ने पंजली पडिपुच्छई ॥७॥ व्याख्या-तस्य मुनेः पादौ चरणौ नत्वा प्रदक्षिणां च कृत्वा नातिदूरो नात्यासन्नो योग्यस्थानवर्तीत्यर्थः । प्राञ्जलिॉजितकरः सन् प्रतिपृच्छति । इह च वन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यनामालोके एव प्रणामः क्रियते इति ज्ञापनार्थम् । तथा चागमः-"आलोए जिणपडिमाणं पणामं करेइ''त्ति ॥७॥ १. आलोके जिनप्रतिमानां प्रणामं करोतीति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy