________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम्
अनन्तराध्ययने निष्प्रतिकर्मताभिहिता, सा चानाथत्वपरिभावनयैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथत्वमनेनोच्यते । इति विंशतितमं महानिर्ग्रन्थीयमध्ययनमारभ्यते ।
सिद्धाणं नमो किच्चा संजयाणं च भावओ।
अत्थ-धम्मगई तच्चं अणुसढेि सुणेह मे ॥१॥ व्याख्या-सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्त्येति पञ्चपरमेष्ठिस्तवमुक्त्वाभिधेयादित्रयमाह । अर्थश्च धर्मश्चार्थ-धर्मों तयोर्गतिर्गत्यर्थानां ज्ञानार्थत्वाद् हिताहितलक्षणस्वरूपज्ञानं यस्यां साऽर्थ-धर्मगतिस्तां 'तच्चं' ति तथ्यां सत्यामनुशिष्टिं हितोपदेशरूपां शिक्षां शृणुत 'मे'इति मम 'कथयत इति शेषः' स्थविरवचनमेतदिति । इह चानुशिष्टिरभिधेया । अर्थ-धर्मगतिः प्रयोजनम् । अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति ॥१॥ यथाप्रतिज्ञातं धर्मकथारूपतयाऽऽह
पभूयरयणो राया सेणिओ मगहाहिवो ।
विहारजत्तं निज्जाओ मंडिकुच्छिसि चेइए ॥२॥ व्याख्या-प्रभूतानि रत्नानि मरकतादीनि गजाश्वादिरूपाणि वा यस्य स तथा । मगधाधिपः श्रेणिकः 'विहारजत्तं' ति सुब्ब्यत्ययाद् विहारयात्रायाः क्रीडार्थमश्ववाहनिकादिरूपाया निर्यातो निर्गतो 'नगरादिति गम्यते' क्व गतः ? इत्याह-'मंडिकुच्छंसि' त्ति मण्डिकुक्षिनाम्नि चैत्ये उद्याने ॥२॥ तदेव विशिनष्टि
नाणादुमलयाइन्नं नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं उज्जाणं नंदणोवमं ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org