________________
५७८
बहुयाणि उ वासाणि सामन्नमणुपालिया । मासिएण उ भत्तेणं सिद्धिं पत्तो अणुत्तरं ॥९५॥
अनयोर्व्याख्या - ज्ञान - दर्शन - चारित्र - तपोभिः भावनाभिर्महाव्रतसम्बन्धिनीभिर्वक्ष्यमाणाभिरनित्यत्वादिभिर्वा शुद्धाभिर्निदानादिदोषरहिताभिः सम्यग् भावयित्वा तन्मयतां नीत्वा 'अप्पयं' ति आत्मानम् ॥ मासिकेन भक्तेन मासोपवासेनेत्यर्थः । सिद्धिं निष्ठितार्थतामनुत्तरां सकलकर्मांशक्षयलक्षणां प्राप्तः । शेषं सुगममिति गाथाद्वयार्थः ॥ ९४-९५।।
अध्ययनोपसंहारमाह
उत्तरज्झयणाणि - २
एवं करंति संपन्ना पंडिआ पवियक्खणा । विणियति भोगेसु मियापुत्ते जहामिसी ॥९६॥
व्याख्या - एवं पूर्वोक्तरीत्या कथनेन 'संपन्न' त्ति सङ्गता प्रज्ञा येषां ते संप्रज्ञाः । पुनः पण्डिता बुद्धिमन्तः । प्रविचक्षणाः चतुराः । विनिवर्तन्ते निवर्तन्ते भोगेभ्यः 'जहामिसी' त्ति मकारोऽलाक्षणिको यथा मृगापुत्रऋषिरिति । शेषं व्यक्तम् ॥९६॥
भङ्ग्यन्तरेणोपदिशन्नाह
महापभावस्स महाजसस्स मियाएपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोयविस्सुयं ॥९७॥ वियाणिया दुक्खविवद्धणं धणं ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं धारेह निव्वाणगुणावहं महं ॥ ९८ ॥ ति बेमि ॥
अनयोर्व्याख्या–महान् प्रभावोऽस्य स महाप्रभावस्तस्य पुनर्महायशस एतादृशस्य मृगापुत्रस्य भाषितं संसारदुःखरूपताऽऽवेदकं यत् तेन पित्रोः पुरत उक्तम् । प्रधानं तपो यत्र चरिते तत् प्रधानतपः चरितं चेष्टितम् । 'गइप्पहाणं च' त्ति प्रधाना गतिर्मोक्षलक्षणा यत्र तत् प्रधानगति ‘उभयत्र व्यत्ययनिर्देशः प्राकृतत्वात्' । त्रिलोकविश्रुतं जगद्विख्यातम् ॥ एतन्निशमनाच्च विज्ञाय ज्ञात्वा दुःखविवर्धनं धनं तथा ममत्वबन्धं सत्प्रवृत्तिघातितया महाभयावहम् । धर्मो धूरिव महासत्त्वैरुह्यमानतया धर्मधुरा महाव्रतपञ्चकात्मिका तां तथा निर्वाणगुणा अनन्तज्ञानदर्शन - चारित्र - वीर्य - सुखदायस्तदावहां तत्प्रापिकां धर्मधुरां धारयत महतीं अपरिमितमाहात्म्याम् । शेषं निगदसिद्धमिति वृत्तद्वयार्थः । इति ब्रवीमीति प्राग्वत् ॥ ९७९८ ।। ग्रं० ३२० ॥
इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां एकोनविंशं मृगापुत्रीयाध्ययनं समाप्तम् ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org