________________
एकोनविंशं मृगापुत्रीयमध्ययनम्
५७७ च मरणे च समो नैकत्राप्याकाङ्क्षावान् । तथा निंदा-प्रशंसयोः समः । मानापमानयोः समः । शेषं व्यक्तम् ॥१०॥
गारवेसु कसाएसुं दंड-सल्ल-भएसु य ।
नियत्तो हास-सोगाओ अनियाणो अबंधणो ॥११॥ व्याख्या-गौरवेभ्यः त्रिभ्यः, कषायेभ्यः चतुर्थ्य:, दण्डा मनोदण्डादयः त्रयः, शल्यानि मायादीनि त्रीणि, भयानि चेहलोकभयादीनि सप्त, तेभ्यो निवृत्तः । 'प्राकृतत्वात् पञ्चम्यर्थे सप्तमी' । तथा हास्य-शोकान्निवृत्तोऽनिदानो भोगप्रार्थनारहितोऽबन्धनो राग-द्वेषात्मकबन्धनविकलः ॥९॥ अत एवाह
अणिस्सिओ इहं लोए परलोए अणिस्सिओ ।
वासी-चंदणकप्पो य असणे अणसणे तहा ॥१२॥ व्याख्या-अनिश्रितो निश्रारहितः नेहलोकार्थं परलोकार्थं वानुष्ठानवान् । यदाह"नो इहलोगठ्ठयाए तवमहिट्ठिज्जा, नो परलोगळुयाए तवमहिट्ठिज्जा" इत्यागमात् । वासीचन्दनकल्प इत्यनेन समताविशेषमाह-वासी-चन्दनव्यापारकयोः कल्पस्तुल्यः । को भावः? यदि कोऽपि वास्या वंसोल्या तक्ष्णोति, अन्यश्च, चन्दनेनाऽऽलिम्पति, तथापि राग-द्वेषाभावतो द्वयोरपि तुल्य इति । तथा अशने आहारे विशिष्टे मनोहरे 'नत्रः कुत्साऽर्थत्वात्' अनशने कदाहारे च तथा कल्पस्तुल्य इत्यर्थः ।।९२॥
अपसत्थेहिं दारेहिं सव्वओ पिहियासवे ।
अज्झप्पज्झाणजोगेहिं पसत्थदमसासणो ॥१३॥ व्याख्या-अप्रशस्तेभ्यः प्रशंसानास्पदेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो 'निवृत्त इति गम्यते' । अत एव पिहिताश्रवो निरुद्धकर्मप्रवेशः । कैः पुनरयमेवंविधः? आत्मन्यधि-अध्यात्म तत्र ध्यानयोगाशुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः प्रशस्तो दम उपशमः शासनं च सर्वज्ञागमात्मकं यस्य स तथा ॥९३॥ अथ तत्फलोपदर्शनायाह
एवं नाणेण चरणेण दंसणेण तवेण य । भावणाहिं विसुद्धाहिं सम्मं भावित्तु अप्पयं ॥१४॥
१. नो इहलोकार्थं तपोऽधितिष्ठेत्, नो परलोकार्थं तपोऽधितिष्ठेत् ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org