SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ५७६ उत्तरज्झयणाणि-२ व्याख्या-'तुब्भेहिं' ति युवाभ्यां हे अम्ब ! 'उपलक्षणात् हे पितश्च' अनुज्ञातः सन्। तावाहतुर्हे पुत्र ! गच्छ 'मृगचर्ययेति प्रक्रमः' । पुत्र ! यथासुखं सुखानतिक्रमेण । शेषं स्पष्टम् ॥८५।। एवं सो अम्मा-पियरो अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे महानागु व्व कंचुअं ॥८६॥ व्याख्या-एवं अमुना प्रकारेण सोऽम्बापितरौ अनुमान्यानुज्ञाप्य [बहुविधं] ममत्वं प्रतिबन्धं छिनत्ति महानाग इव कञ्चुकं यथासावतिजरठतया चिरप्ररूढमपि कञ्चकमपनयत्येवमसावपि ममत्वं मायादींश्चेति ॥८६॥ तथा इड्ढी वित्तं च मित्ते य पुत्त-दारं च नायओ। रेणुयं व पडे लग्गं निद्धणित्ता ण निग्गओ ॥८७॥ व्याख्या-ऋद्धिमश्वादिसम्पदं वित्तं द्रव्यं ज्ञातीन् सोदरादीन् रेणुमिव पटलग्नं 'निश्रुणित्त' त्ति निधूय त्यक्त्वा निर्गतो निष्क्रान्तः 'गृहादिति गम्यम्' प्रव्रजति इत्यर्थः ।।८७।। ततोऽसौ कीदृग् जात इत्याह पंचमहव्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो य । सब्भितर-बाहिरए तवोकम्मंमि उज्जुओ ॥८८॥ निम्ममो निरहंकारो निस्संगो चत्तगारवो । समो य सव्वभूएसु तसेसु थावरेसु य ॥८९॥ अनयोर्व्याख्या-पञ्चमहाव्रतसहितः पञ्चसमितिभिः समितः । त्रिगुप्तिभिगुप्तः। सहाभ्यन्तरैः प्रायश्चित्तादिभिर्बारिनशनादिभिर्भेदैर्वर्तते इति तत् तथा तस्मिन् तपःकर्मण्युद्यतः ॥ निर्गता ममता अस्याऽसौ निर्ममः । नितरां गतोऽहंकारो यस्मात् स निरहङ्कारः । निःसङ्गः सङ्गहेतुधनादित्यागात् । त्यक्तगारवत्रिकः । समश्च न रागद्वेषवान् सर्वभूतेषु त्रसेषु स्थावरेषु च निर्ममत्वादेरेवेति गाथाद्वयार्थः ।।८८-८९।। तथा लाभालाभे सुहे दुक्खे जीविए मरणे तहा । समो निंदा-पसंसासु तहा माणावमाणओ ॥१०॥ व्याख्या-समो न लाभादौ चित्तोत्कर्षवान् । नाप्यलाभादौ दैन्यवान् । जीविते Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy