________________
५७५
एकोनविंशं मृगापुत्रीयमध्ययनम् दृष्टान्तमभिधायोपसंहारमाह
एवं समुट्ठिए भिक्खू एवमेव अणेगगो।
मिगचारियं चरित्ता णं उर्दु पक्कमई दिसं ॥८२॥ व्याख्या-एवमिति मृगवत् समुत्थितः संयमानुष्ठानं प्रत्युद्यतः । तथाविधातङ्कोत्पत्तावपि न चिकित्साभिमुख इति भावः । भिक्षुः एवमेव मृगवदेवाऽनेकगो यथा ह्यसौ नैकस्मिन् वृक्षे आस्ते, किन्तु कदाचित् क्वचिदेवमेषोऽपि भिक्षुरनियतस्थानस्थितयाऽनेकगः । स चैवं मृगचर्यां चरित्वा मृगवदातङ्काभावेन भक्त-पानगोचरं गत्वा तदुपष्टम्भतो विशिष्टज्ञानावाप्त्याऽपगताशेषकर्मांश ऊर्ध्वं प्रक्रामति प्रकर्षण गच्छति दिशं । मृगः पुष्ट उच्छलति, भिक्षुस्तु सर्वोपरिस्थानस्थो भवति निर्वृतिं मोक्षं यातीत्यर्थः ॥८२।।
मृगचर्यामेव स्पष्टयतिजहा मिए एगे अणेगचारी अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविट्ठो नो हीलए नो वि य खिसएज्जा ॥८३॥
व्याख्या-यथा मग एकोऽद्वितीयोऽनेकचारी नैकत्र भक्त-पानार्थं चरतीत्येवंशीलोऽनेकवासो विविधाश्रयवासी ध्रुवगोचरश्च सदा गोचरलब्धमेवाहारयतीत्येवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां भिक्षाऽटनं प्रविष्टो न हीलयेदवजानीयात् 'कदशनादीति गम्यते' नापि च खिसयेदाहाराप्राप्तौ स्वं परं वा निन्देत् । अत्र च मृगस्योपशमप्राधान्यादुपमानत्वमिति ॥८३॥ अथ यत् पुत्रवचनं यच्च तत्र पितृवचनम्, ततश्च यत् पुत्रः कृतवांस्तदाह
मिगचारियं चरिस्सामि एवं पुत्ता ! जहासुहं ।
अम्मापिईहिंऽणुन्नाओ जहाइ उवहिं तओ ॥८४॥ व्याख्या-मृगस्य चर्यां चेष्टां निष्प्रतिकर्मतारूपां चरिष्यामीति बलश्रिया युवराजेनोक्ते पितृभ्यामभाणि । एवं हे पुत्र ! यथा भवतोऽभिरुचितं तथा यथासुखं 'तेऽस्त्विति शेषः' एवं चानुज्ञातो जहाति त्यजत्युपधि द्रव्यत आभरणादि, भावतश्छद्मादि, यदनेनात्मा नरके उपधीयत इति । ततश्च प्रव्रजित इत्युक्तं स्यादिति ॥८४॥ उक्तमेवार्थं सविस्तरमाह
मिगचारियं चरिस्सामि सव्वदुक्खविमुक्खणिं । तुब्भेहिं अंब ! ऽणुन्नाओ गच्छ पुत्त ! जहासुहं ॥८५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org