________________
५७४
उत्तरज्झयणाणि-२ सीताकस्तु महावृक्षं चटित्वा लघु तस्थिवान् । पाताको भेषजेनाऽश्वाऽनञ्ज हर्यक्षचक्षुषी ॥११॥ सज्जाक्षो हरिरुत्तस्थौ क्षुत्-पिपासाऽदितो भृशम् । पाताकं पातयित्वो| फालेनात्तुं प्रवृत्तवान् ॥१२॥ स लघुर्निविचारत्वात् सञ्जातो दुःखभाजनम् । वृद्धस्तु दीर्घदशित्वात् सौख्येनाऽस्थाद् गृहं गतः ॥१३।। एवममहत्यारण्ये तिर्यग्रोगप्रतिक्रियाकर्ता ।
सम्भाव्यतेऽपि कश्चिन्न पुनर्विजने महाऽरण्ये ॥१४॥ इति कथा ॥७८॥
को वा से ओसहं देइ को वा से पुच्छई सुहं ? ।
को से भत्तं व पाणं वा आहरित्तु पणामए ? ॥७९॥ व्याख्या-चिकित्सके चासति को वा 'से' तस्य मृगादेरौषधं ददातीत्यादिरुत्तरोत्तराप्राप्तिदर्शनीया 'आहरित्तु' त्ति आहृत्य 'पणामए'त्ति प्रणामयेदर्पयेत् 'अर्पः 'पणाम' इत्यादेशः प्राकृते' ॥७९॥ कथं तस्य निर्वाह इत्याह
जया य से सुही होइ तया गच्छड् गोयरं ।
भत्त-पाणस्स अट्ठाए वल्लराणि सराणि य ॥८०॥ व्याख्या-यदा च स मृगः सुखी भवति 'स्वत एव रोगाभावादिति गम्यम्' । तदा गोरिव परिचितेतरभूभागे चरणं भ्रमणं गोचरस्तं भक्तं च तृणादि पानं च पानीयं तस्यार्थाय निमित्तं वल्लराणि गहनानि सरांसि सरोवराणि च गच्छति ॥८०॥
खाइत्ता पाणियं पाउं वल्लरेहिं सरेहि य ।
मिगचारियं चरित्ता णं गच्छई मिगचारियं ॥८१॥ व्याख्या-खादित्वा 'निजभक्ष्यमिति गम्यते' । पानीयं च पीत्वा 'सुब्ब्यत्ययात्' वल्लरेषु सरस्सु च । तथा मृगाणां चर्या-इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति । मृगाणां चर्या चेष्टा स्वातन्त्र्योपवेशनादिका यस्यां सा तथा मृगाश्रयभूस्ताम् ॥८१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org