________________
५७३
एकोनविंशं मृगापुत्रीयमध्ययनम् मृगश्चरति । एवमित्येकभूतः संयमेन तपसा हेतुभूतेन धर्मं चरिष्यामि ॥७७॥
जया मियस्स आयंको महरन्नंमि जायई ।
अच्छंतं रुक्खमूलंमि को णं ताहे विगच्छई ॥७८॥ व्याख्या-यदा मृगस्यातङ्क आशुघाती रोगो महारण्ये जायते । 'अच्छंतं' ति तिष्ठन्तं वृक्षमूले क एतं तदातकोत्पत्तिकाले चिकित्सत्यौषधादिना नीरोगं कुरुते ? न कश्चिदित्यर्थः । महारण्य इत्यऽत्र महाग्रहणं लघुन्यरण्ये कदाचित् कश्चित् कृपातस्तिरश्चश्चिकित्सेदपीत्यत्र दृष्टान्तः
सन्माकन्दवसन्त श्रीश्रीवसन्तपुरेऽभवत् । चिकित्साकर्मनिष्णातो धनञ्जयभिषग्वरः ॥१॥ युग्मिनौ तस्य जज्ञाते सीता-पाताऽभिधौ सुतौ । पाल्यमानौ क्रमात् पञ्चवर्षीयांसौ बभूवतुः ॥२॥ पितर्युपरते दैवान्निविद्यौ चिन्तयाऽञ्चितौ । मातुर्वचनतः काश्यां गतौ तौ मातुलान्तिके ॥३॥ वाग्भट-सुश्रुत-चरकप्रमुखग्रन्थानऽधीत्य तत्पावें । कृतकृत्यौ तं पृष्ट्वा प्रस्थितवन्तौ निजं गेहं ॥४॥ मार्गमतिक्रममाणौ क्रमशः प्राप्तावरण्यकं तौ तु । चक्षुर्विकलं सिंहं दृष्ट्वाऽन्योऽन्यं च वार्तयतः ॥५॥ "कनीयानूचिवान् ज्येष्ठं भ्रातरेतस्य चक्षुषी । उद्धाट्ये विद्याप्रमाण्यादुपकारः कृतो भवेत् ॥६॥ परोपकारः पुण्याय यतो हि श्रूयते श्रुतौ । ज्यायानाऽहोपकारोऽपि कृतः पात्रे शुभप्रदः ॥७॥ पयः सर्पमुखे क्षिप्तं विषं स्यान्मृत्युदं यथा । उपकारः कृतोऽपात्रे स्यात् तथाऽनर्थदायकः ॥८॥ पुनः कनिष्ठ आचष्ट भ्रातरौदार्यधीभृताम् ।
पात्रापात्रविचारो हि नौचितीमञ्चति स्फुटम्" ॥९॥ उक्तं हि
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org