________________
५७२
उत्तरज्झयणाणि-२ व्याख्या यादृश्यो मानुषे लोके हे तात ! दृश्यन्ते वेदनास्ताभ्योऽनन्तगुणिता नरकेषु दुःखवेदना ॥७३॥ अथ सर्वगतिवेदनानुभवमाह
सव्वभवेसु असाया वेयणा वेइया मए ।
निमिसंतरमित्तं पि जं साया नत्थि वेयणा ॥७४॥ व्याख्या-सर्वभवेष्वसाता वेदना दु:खवेदना वेदिता मया निमेषोऽक्षिमीलनं तस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तावत्कालमपि । यद् यस्मात् साता सुखरूपा नास्ति वेदना वैषयिकसुखस्याऽपीाद्यनेकदुःखानुविद्धत्वाद् विपाकदारुणत्वाच्च । अयमाशयो योऽहं निमेषमात्रमपि सुखं न लब्धवान् , स तत्त्वतः कथं सुखोचितः सुकुमालो वेति? कथं वा तस्य दुष्करा प्रव्रज्या ? अतोऽसौ मया ग्राद्यैवेति ॥७४॥ ततः पितरौ यथाऽऽहतुस्तथाऽऽह
तं बिंतम्मा-पियरो छंदेण पुत्त ! पव्वया ।
नवरं पुण सामन्ने दुक्खं निप्पडिकम्मया ॥७५॥ व्याख्या-तं मृगापुत्रं ब्रूतोऽम्बा-पितरौ छन्दसा स्वकीयाभिप्रायेण हे पुत्र ! प्रव्रज दीक्षितो भव । नवरं पुनः श्रामण्ये दुःखं दुःखहेतुनिष्प्रतिकर्मता रोगादौ चिकित्साऽकरणरूपेति ॥७॥ पुनः पुत्रवचनं ससम्बन्धं प्राह
सो बिंतम्मा-पियरो एवमेयं जहा फुडं ।
पडिकम्मं को कुणई अरण्णे मिय-पक्खिणं ? ॥७६॥ व्याख्या-स मृगापुत्रोऽम्बा-पितरौ ब्रूते । यथैवमेतन्निष्प्रतिकर्मताया यद् दुःखरूपत्वमुक्तं युवाभ्यां तत् स्फुटं प्रगटमवितथं परं परिभाव्यतामिदम् । परिकर्म रोगचिकित्सारूपं कः करोति ? न कश्चिदित्यर्थः । क्व? अरण्ये केषां ? मृगपक्षिणाम् अथ चैतेऽपि जीवन्ति विचरन्ति च । ततः किमस्या दुःखरूपत्वमिति भावः ॥७६।। यतश्चैवमत:
एगभूओ अरणे वा जहा उ चरई मिगो ।
एवं धम्मं चरिस्सामि संजमेण तवेण य ॥७७॥ व्याख्या-एकभूत एकत्वं प्राप्तोऽरण्ये 'वा पूरणे' 'जहा उ' त्ति यथैव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org