________________
एकोनविंशं मृगापुत्रीयमध्ययनम्
५७१ व्याख्या-तप्तानि ताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा 'कलकलंताई'ति अतिक्वाथतः कलकलशब्दं कुर्वन्ति । आरसन्-आरटन् सुभैरवं महाभयकारी अहं पायितः ‘परमाधार्मिकैरिति प्रक्रमः' ॥६८||
तुहं पियाइं मंसाइं खंडाइं सोल्लगाणि य ।
खाविओ मि समंसाइं अग्गिवन्नाइं णेगसो ॥६९॥ व्याख्या-तव प्रियाणि मांसानि खण्डानि खण्डरूपाणि 'सोल्लगाणि'त्ति शले दत्त्वा भटित्रीकृतानि 'स्मारयित्वेति शेषः' खादितोऽस्मि स्वमांसानि मच्छरीरादेवोत्कृत्योत्कृत्य ढौकितान्यग्निवर्णान्यऽतितप्ततयाऽग्निच्छायानि परमाधार्मिकैविकृत्याऽनेकशोऽनेकवारानिति ॥६९॥
तुहं पिया सुरा सीहु मेरओ य महूणि य ।
पाइओ मि जलंतीउ वसाउ रुहिराणि य ॥७०॥ व्याख्या-तव प्रियाणि सुरादीनि मद्यविशेषरूपाणि 'स्मारयित्वेति गम्यम्' पायितोऽस्मि 'जलंतीउ' त्ति ज्वलन्तीरत्युष्णतया वशा रुधिराणि च ज्वलन्तीति लिङ्गव्यत्ययेन योजनीयमिति ॥७०॥ नरकवक्तव्योपसंहारमाह
निच्चभीएण तत्थेण दुहिएण वहिएण य ।
परमा दुहसंबद्धा वेयणा वेइया मए ॥७१॥ व्याख्या-नित्यभीतेन त्रस्तेनोद्विग्नेन दुःखितेन व्यथितेन च कम्पमानसर्वाङ्गोपाङ्गतया चलितेन परमा प्रकृष्टा दुःखसम्बद्धा वेदना वेदितानुभूता मयेति ॥७१॥
तिव्वचंडप्पगाढाओ घोराओ अइदुस्सहा ।
महब्भयाओ भीमाओ नरएसुं वेइया मए ॥७२॥ ___व्याख्या-तीव्रा अनुभावतोऽत एव चण्डा उत्कटाः प्रगाढा गुरुस्थितिकास्तत एव घोरा रौद्रा अतिदुःसहा अत्यन्तदुरध्यवसाया अत एव महाभया भीमा श्रूयमाणा अपि भयप्रदा नरकेषु वेदिता अनुभूता 'वेदना इति प्रक्रमः' [मयेति] ॥७२।। कथं तासां तीव्रादिरूपत्वमित्याह
जारिसा माणुसे लोए ताया ! दीसंति वेयणा । इत्तो अणंतगुणिया नरएसु दुक्खवेयणा ॥७३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org