SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ५७० उत्तरज्झयणाणि-२ पासेहिं कूडजालेहिं मिओ वा अवसो अहं । वाहिओ बद्ध-रुद्धो य विवसो चेव विवाईओ ॥६३॥ व्याख्या-पाशैः कूटजालैः प्रतीतैर्बन्धनविशेषैर्मंग इवाऽवशः परवशोऽहं वाहितो विप्रलब्धः, बद्धो बन्धनेन, रुद्धो बहिःप्रचारनिषेधेन, विशेषेण वशः परमाधार्मिकाणामित विविश एवाहं विपादितो विनाशितः ॥६३।। गलेहि मगरजालेहिं मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ मारिओ य अणंतसो ॥६४॥ व्याख्या गलैर्बडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैस्तत्कृतैस्तयोर्द्वन्द्वः । ततो यथासङ्ख्यं मत्स्य इवाऽवशोऽहं परवशोऽहं 'उल्लिओ'त्ति उल्लिखितः, पाटितः, गृहीतच, मारितश्च सर्वैरपि ॥६४।। विदंसएहिं जालेहिं लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य मारिओ य अणंतसो ॥६५॥ व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तादृग्बन्धनैः 'लेपाहिति लेपैर्वज्रलेपादिभिः श्लेषद्रव्यैः ‘सउणो विव'त्ति शकुन इव पक्षीव यथाक्रमं गृहीतः, लग्नश्च, श्लिष्टश्च, मारितश्च सर्वैरपि ॥६५।। कुहाड-फरसुमाईहिं वड्डइहि दुमो विव ।। कुट्टिओ फालिओ छिन्नो तच्छिओ य अणंतसो ॥६६॥ व्याख्या-कुठार-पर्वादिभिः कृत्वा वर्धकिभिर्दुम इव कुट्टितः सूक्ष्मखण्डीकृतः, पाटितः, छिन्नश्च प्राग्वत्, तक्षितश्च त्वगपनयनतः ॥६६॥ चवेड-मुट्ठिमाईहिं कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो चुन्निओ य अणंतसो ॥६७॥ व्याख्या-चपेटा-मुष्ट्यादिभिः कुमारैररयस्कारैः 'अयं पिव'त्ति 'पिव मिव विव वा इवार्थे' इत्युक्तत्वात् अय इव 'घनादिभिरिति गम्यम्' । ताडित आहतः, कुट्टितश्चिपिटीकृतः, भिन्नश्छिन्नश्चूर्णितः श्लक्ष्णखण्डीकृतः 'प्रक्रमात् परमाधार्मिकैः' अनन्तशः ॥६७॥ तत्ताइं तंब-लोहाइं तउयाइं सीसगाणि य । पाइओ कलकलंताई आरसंतो सुभेरवं ॥६८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy